Page #1
--------------------------------------------------------------------------
________________ ॥श्रीजिनायनमः // DSSSSSSSSSSSSSSSBEES // श्रीइलातीपुत्रचरित्रम् // (कर्ता श्रीशुभशीलगणी) गद्यबद्धं. 050000 छपावी प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज (जामनगरवाळा) सने 1934 सर्वत् 1991 किंमत रु. 0-8-0 श्रीजैन भास्करोदय प्रिन्टिग प्रेसमा छाप्यु:-जामनगर.. @@@@@000@@@@@@@@e
Page #2
--------------------------------------------------------------------------
_
Page #3
--------------------------------------------------------------------------
________________ Levera इलाती चरित्रं // श्रीजिनाय नमः। // श्रीचारित्रविजयगुरुभ्यो नमः // . // अथ श्रीइलातीपुत्रचरित्रंप्रारभ्यते // (द्वितीयावृत्तिः) (कर्ता-श्रीशुभशीलगणी) छपावी प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज (जामनगरवाळा ) __ अनित्यत्वादिकां शुद्धां / भावनां स्मरता हृदि // इलातीतनयस्येव / पुंसा मुक्तिरवाप्यते // 1 // की इहैव जंबूद्वीपे भारते क्षेत्रे इलाभूषणा इलावर्धनाख्या पुरीबभूव. तत्र नराधिपशतसेव्योन्यायाध्वना राhी ज्यं पालयन् जितशत्रुनामा राजाभृत्. तत्रैको व्यापारिशिरोमणिरिभ्यनामाश्रेष्ठी वसतिस्म. तस्य च शी लादिगुणगणधारिणी धारिण्यभिधा भार्यासीत्, संसारसुखानि भुंजानयोरपि तयोः किंचिदपत्यं नाभृत्, तेन च तो दंपती निजमनसोर्दुःखं मन्यमानावास्तां; अथान्येद्यस्ताभ्यां श्रीजिनाधिष्ठायिकाया इलादे. SRISARDARSRDASDDSSS - - 0000000000 eAvecveceVEV
Page #4
--------------------------------------------------------------------------
________________ इलाती चरित्रं % 3D lal व्याः पुत्रप्राप्त्यर्थमाराधनं कृतं, प्रोक्तं च यद्यावयोः पुत्रो भविष्यति तदा भवत्यानामांकितं तस्य पुत्र स्याभिधानं करिष्यावः अथैवं धर्मध्यानपरयोस्तयोः क्रमात पुत्रो जातः, तदो तस्य महताडंबरेण ज न्मोत्सवं विधाय प्रतिपन्नवचनानुसारेण ताभ्यां तस्य सुतस्य "इलातिपुत्र” इति नाम विहितं. अथैवं // // धात्रीभिर्लाल्यमानोऽसौ क्रमेण वृष्टिं प्राप्नुवन्नष्ट. वार्षिको जातः ततोऽसौ पितृभ्यां कलाभ्यासार्थ पाठ 6 शालायामाचार्यसन्निधौ मुक्तः, तत्रासो प्रयासंविनैव सकलकलाभ्यासपूर्वकं विषमाण्यपि शास्त्राणि सूक त्राथैः सहाभ्यस्तवान्, अथ स यौवनं प्राप्तोऽपि सकलविषयेभ्यः पराङ्मुखीभूय विशेषतस्तरुणीभ्यो म नागपि निजमनो न दत्तेस्म. किंतु साधजनानां संगं कुर्वन सदा निजमनसि वराग्यमेव भावयामास. की यथो-संतोषस्त्रिषु कर्तव्यः / स्वदारे भोजने धने // त्रिषु चैव न कर्तव्यो / दाने चाध्ययने जपे // 1 // की पंडितेषु गुणाः सर्वे / मुखे दोषास्तु केवलं // तस्मान्मूर्खसहस्त्रेषु / प्राज्ञ एको न लभ्यते // 2 // धैर्य य स्य पिता क्षमा च जननी शांतिश्चिरं गेहिनी। सत्यं सूनुरयं दया च भगिनी भ्राता मनः संयमः // शय्याभूमितलंदिशोऽपि वसनं ज्ञानामृतं भोजन-मेते यस्य कुटुंबिनो वदसखे कस्माद् भयं योगिनः // 1 // NeeVee eee eeeeeeeeeeeres EVI
Page #5
--------------------------------------------------------------------------
________________ इलाती चरित्रं eeeeeeeeeeeeeeeeeeeeevee इत्यादि वैराग्यमेव भावयन् स्त्रीसंगं केवलं नरकप्रदमेव स मन्यतेस्म. अथेवं वैराग्यपरं निजपुत्रं त्रिव र्गशून्यमेव मन्यमानस्तस्य जडबुद्धिः पिता तं विषयकुशलं विधातुमिच्छतिस्म. अथासौ नगरमध्यात्का, मूल का श्चन दुर्ललितान् सप्तव्यसनोपेतान् वेश्यागमनप्रवीणान् यूनो निजपावे समालय कथयामास, भो पुरु-क॥३॥ पाः ! यूयमेनमिलातीपुत्रं. मम तनयं युष्मत्सार्थे गृहीत्वा स्त्रीविषयादिषु प्रवीणं कुरुध्वं ? तत्र च यद्रव्यादि युज्यते, तत्सर्वं ममाग्रतो ग्राह्य एवं तदुनानि वचनानि श्रुत्वा प्राप्तदुग्धा बिडाला इव प्रहृष्टमानसास्ते दुर्ललिताः कथयामासुः, भो श्रेष्ठिन् ! एतत्वस्माकं कार्यमेव, स्तोकेनैव कालेन वयमिममिलातीपुत्रं सर्वविषयेषु कुशलं करिष्यामः, अथ श्रेष्ठ्यपि तं निजपुत्रमिलातीपुत्रं समाहूय कथयामास, भो| पुत्र ! अद्यप्रभृति एते सज्जनास्तव मैत्री कर्तुं वांछंति, अतस्त्वमप्येभिः सह गत्वा सकलव्यवहारकुशलो | भव ? एते सर्वप्रकारेस्तव मानसमानंदयिष्यंति. एवं निजतातादिष्टःस इलातीपुत्रोऽपि तैःसह चलितः अथ ते दुललिता वसंतोत्सवे जातिकेतकीचंपकाशोकचूतादीनां प्रफुल्लकुसुमादिभिः सुरभीभृते उद्याने तमिलातीपुत्रं निन्युः. इतस्तत्र लंखिकाख्यनटस्यैका कन्यका तत्र नृत्यंती तेन राजपुत्रेण दृष्टा. सा च HAAVEEEEEEVEeeevee
Page #6
--------------------------------------------------------------------------
________________ // 4 // x यौवनवती रभेव रूपलावण्यादिसंपन्ना मृत्. तां च दृष्ट्वा दैवयोगात्पूर्वभवस्नेहेन स भृशं कामातुरो वइलाती / भूत्र. तां च परिणेतुकामः स तत्र तां पुनः पुनर्विलोकयन् निश्चेष्टः कोलित इवाजनि. अथेगिताकारज्ञाचरित्रं 6 नकुशलास्ते दुर्ललितास्तं तथाविधं कामदशाविहवलं विज्ञाय निजप्रयासं च सफलं मन्यमानाः, श्रेष्ठितश्च भूरिद्रव्यपारितोषिकलामंध्यायंतस्तत्र स्तंभितं तमिलातीपुत्रं कथयामासुः, भो मित्र! अथेतो निजगृहे 14 गम्यते. यतस्तव पिता त्वांनिनाऽधृति करिष्यति, इति पुनः पुनस्तैरुक्तः स विमनस्कः कथंचितैस्तद्गृहे / नीतः. तत्र शयने सुप्तोऽप्यसो क्षणमपि समाधि न लभतेस्म. अथ तथावस्थमसमाधिगतं निजतनयं वी-12 भक्ष्य श्रेष्ठी तं पप्रच्छ, भो वत्स ! अद्य त्वमेवं दुर्मनायितः कथं दृश्यते ? किं केनापि तवापराधः कृतोऽस्ति? किंवा केनापि किंचित्तवापमानं कृतमस्ति ? एवं श्रेष्ठिना मुहुर्मुहुः पृष्टोऽपि मुनिरिव मौनमाश्रितोऽसौ. किंचिदपि न जल्पति, केवलमुष्णनिःश्वासानेव मुंचतिस्म. ततः श्रेष्ठी तान दुर्ललितान् तद्दयस्यान् स-13 माहय निजपुत्रस्य दुर्मनःकारणं पप्रच्छ. तदा ते प्राचुः, हे श्रेष्ठिन् ! अयोद्याने स्माभिःसहागतेनानेन कुमारेण लंखिकाख्यनटस्य मनोहरा कन्या नृत्यंती दृष्टास्ति, ततः प्रभृति मदनबाणेर्हतोऽयं तां परिणे C२ॐॐ
Page #7
--------------------------------------------------------------------------
________________ ॐ इलाती चरित्रं R // 5 // # तुकामो जातोऽस्ति. इत्युक्त्वा लब्धपारितोषिकास्ते तु ततश्चलिता निजस्थाने ययुः. ततः श्रेष्ठी पश्चा| त्तापं कुर्वन् निजपुत्रप्रति जगाद, भो पुत्र ! त्वं कुलीनः वणिक् पुत्रोऽसि, इमां चाकुलीनां नटकन्यां प-H रिणेतु कथमीहसे ? अहं ने रूपलावण्यादिगुणगणोपेता भूरिशो वणिक् कन्याः परिणाययिष्ये, एवंविधा| नि पितुर्वचनानि श्रुत्वा स इलातीपुत्रोऽभाषत, हे तात ! अहमेतत् सर्वमपि जानामि, यन्नटकन्यापरिणयनं मे वणिक्श्रेष्ठि पुत्रस्य केवलमयोग्यमेवास्ति, परं किं करोमि ? मदीयं मनस्तस्यामेव नटकन्याया मासक्तीभृतं वर्तते. यतः-यत्र यस्य मनः सक्तं / शर्म तत्र स मान्यते / मृद्विकां करभस्त्यक्त्वा / स्तुहीमेवात्ति भावतः // 1 // एवंविधं निजपुत्रवचोनिशम्य पश्चात्तापपरः स श्रेष्ठी दध्यो, अरेरे ! मया स्व| यमेवाविचारितं कार्य कृतं, यदस्य तेषां दुर्ललितानां कुसंगतिः कारिता, तम्याश्च स कुसंगत्या एवंविधं कटुफलं प्रादुर्मूतं. अथायं केनाप्युपायेने तो दुराग्रहान्निवारयितुमशक्योऽस्ति. निषिधश्च स तदासक्तचि-3 तः चेदात्महत्यां करिष्यति, तदा मे का गतिर्भाविनी ? इतो व्याघ्र इतस्तटी इति न्यायो मम समापतितोऽस्ति. इत्यादि ध्यात्वा विषण्णीभूतः स श्रेष्ठी तंलंखिकं नटपेटकस्वामिनमाकार्य कथयामास. भो ex-C% EGARDED 95-5
Page #8
--------------------------------------------------------------------------
________________ . इलाती Pal लंखिक ! त्वं मदीयपुत्राय त्वदीयां कन्यां देहि ? तत् श्रुत्वा स लंखिकः स्पष्टमभाषिष्ट, भो श्रेष्ठिन् ! चे. हि त्वदीयपुत्रस्य मदीयामिमां पुत्री परिणेतुमिच्छा वर्तते, तदायस्मदीयपेटके समायातु, अस्माभिः सह चरित्रं भोजनादि कुर्वन् , नटकलाभ्यासं च कुर्वन् , स सुखेन निजकालं गमयतु. अहमपि च तं नटकलाकुशलतया धनमर्जयं तं विज्ञाय सुखेनैवैनां मदीयां कन्यां तस्मै दास्यामि, अथ तत् श्रुत्वा खिन्नाऽपि स श्रेष्ठी निजतनयात्मघातभीतः सन् नटोक्तं सर्वमपि स्वीचकार. अथ तं नटं विसय॑ स श्रेष्ठी पुनरपि / | निजसुतपाद्यं गत्वा तं प्रतिबोधयामास, परं तस्यां नटतनयायामासक्तेनेलातीपुत्रेण निजाग्रहो न परित्य। क्तः, एवं जनकोपदेशमवमन्य स विषयाभिलाषया द्रुतं तत्र लंखिकनटपेटके गतः. तदा तेन नटेनापि / तस्मै प्राक्त, भो इलातीपुत्र! यदि त्वमस्मदीयां नृत्यकलां शिक्ष्यसि, तदा तुभ्यमेनां कन्यां दास्यामः. 6 एवं लंखिकादिष्टोऽसौकामार्थीपरमानंदेन नृत्यकलाभ्यासं कर्तु लग्नः, यतः कामाशुत्रैः स्वांत-कुंभे जर्ज रिते सति // स्तोकमप्युपदेशांभः / क्षिप्तं संतिष्टते कथं // 1 // अपसर सखे दूरादस्मात् कटाक्ष विपाननात् / प्रकृतिविषमा घोषित्साद्विलासफणाभृतः // इतरफणिना दष्टः शक्यश्चिकित्सितुमौषधै-श्व RECXGPऊ
Page #9
--------------------------------------------------------------------------
________________ . 6 इलाती चरित्रं टुलवनिताभोगैम्रस्तं त्यजति हि मंत्रिणः // 2 // नपुंसकमिति ज्ञात्वा / स्त्रीप्रति प्रेषितं मनः // तत्तुतत्रैव रमते / हताः पाणिनिना वयं // 3 // प्राणानपि विमुंचंते / स्त्रीशस्त्रीदीर्णवक्षसः // पुरुषा मदनासका। मत्स्याव गललोलुपाः // 4 // अथ प्रज्ञाप्रकर्षत्वात स इलातीषुत्रः स्तोकेनैव कालेन नृत्यकलासु कुशलो बभूव. अथ स लंखिकस्तं नृत्यकलाकुशलं विज्ञाय कथयामास. भो वत्स! अथ त्वं तुर्ग स्वनृत्य कलादर्शनतो द्रुतं द्रव्यमर्जयस्व ? येन महोत्सवपूर्वकं तुभ्यमेषा मनोहरा कन्या दीयते. ततः स ईलातीपुत्रस्तन्नटकन्यापरिणयनोत्सुको द्रव्योपार्जनाथे लंखिकादिपेटकयुतो बेन्नातटाख्ये पुरे समेत्य तत्रत्य महोपालं विज्ञपयामास, हे राजन् ! वयं तवास्मदीयनृत्यकलादर्शयितुं वांछामः, तत् श्रुत्वा भूपेनोक्तं सु. खेन युष्मदीयां नृत्यकलां मे दर्शयध्वं? तद दृष्टा हृष्टाऽहं युष्मभ्यं भूरिदानं दास्ये. अर्थवं नृपादिष्ट ड. लातीपुत्रो मूरिधनलाभलोलुपो नानाभिनयबंधुरं तथाविधं मनोहरं प्रेक्षणं चकार, यथा सर्वेऽपि लोका : निजहृदयेषु चमत्कार प्राप्ताः. तदानीं च तालानुसारेण पटहंवादयंती तां रूपतिरस्कृतदेवांगनां लंखि- | 1 कपुत्रीं दृष्ट्वा मदनबाणविद्धो राजा हर्तुकामोऽभूत्. ततश्चेलातीपुत्रमरणं वांछन् स तं जगौ, भो इलाती ॐॐॐॐॐ
Page #10
--------------------------------------------------------------------------
________________ इलाती मुल // 8 // पुत्र ! त्वं वंशोपरिविलजीनो नृत्यं कुरु ? एवं नृपादिष्टः स वंशोपरिस्थितस्तथा नृत्यं चकार, यथा राजा. दयः सर्वेऽपि लोका निजहृदयेषु भृशमाश्चयं प्राप्ताः. पुनस्तेन क्रूरहृदयेन राज्ञा प्रोकं त्वमथाकाशे नि. चरित्रं चरित्र || राधारो भृत्वा नृत्यं कुरु? तत् श्रुत्वा तेनेलातिपुत्रेणापि तथैवं विहितं. अथैव नृत्यं कुर्वतोऽपि तस्येलाती॥ 8 // पुत्रस्य मरणमजातं विलोक्य नृपो निजकुटिलाशयेन तस्य पावेवास्रयमेवमेव निराधारं नृत्यं कारया मास. अथ चतुर्थवारके नृपादेशेन वंशोपरि चटिन इलातीपत्रस्तं नृपं निजप्रियायामासक्तमानसं निज मारणाभिलाषं च कुर्वतं स्वबुध्ध्या विज्ञाय चिंतयामास, अहो ! विषयवैषम्यं धिक् ! अयं राजापि मद A नबाणविद्धो नीचकुलोत्पन्नायामप्यस्यां नव्यामासक्तो जातोऽस्ति, ततश्च मां मारयितुं पुनः पुनर्नृत्यं का रयति. अरेरे! स्वर्गीयदेवांगनोपमे सत्यपि निजांतःपुरे कामविह्वलोऽयं नप एतस्यामेगसक्तो जातः, धिगस्तु कामविकारं. यत-सस्वाधीनेऽपि कलत्रे / नीचः परदारलंपटे भवति // संपूर्णेऽपि तटाके / काकः कुंभोदकं पिबति // 1 // अरेरे ! मया मातापित्रोर्वचनमुल्लंध्यैनंविधमकार्य कृतं, निर्मलेऽपि कुले केवलं विषयसुखवांछया कलंको दत्तः, अतो मां धिगस्तु, एवंविधा विषयासक्तिर्मयात्रैव दुःखपरिणामरूपाऽनु -%ASSESCRecxeKOS 56
Page #11
--------------------------------------------------------------------------
________________ पचन्म- H // 9 // -Sax 4 भूता. यतः-ते धत्तूरतरं वपंति भुवने प्रोन्मूल्य कल्पद्रुमं / गृहंति खलुकर्करंनिजकरे प्रक्षिप्य चिंताइलाती मणि // विक्रीय द्विरदं गिरींद्रसदृशं क्रीणंति ते रासभं / ये लब्धं परिहृत्य धर्ममधमा धावंति भोगाश- HI चरित्रं या // 1 // एवं वैराग्यवासितहृदयो यावत् स इलातीपुत्रो वंशाग्रस्थितो ध्यायति, तावत्स कस्यचिन्म॥९॥ हेभ्यस्य गृहे भिक्षार्थ प्रविष्टान् कांश्चिन्मुनीन् स ददर्श. तदेव निजरूपनिर्जितरंभा, दिव्यवस्त्रालंकार धारिणी, चंद्रानना तम्य धनपतेर्वधूस्तेभ्यो मुनिभ्यो मिक्षादानार्थ हस्तधृतमनोहरमोदकस्थाला तदये। A समागत्य स्थिता. परं ते मुनयस्ता ललनां निजदृष्ट्यापि न विलोकयामासुः ततो गृहीतभिक्षास्ते सा- | धवस्ततो मह्यामेव न्यस्तदृष्टयो निवृत्ताः. एवंविधान्निग्रहितेंद्रियांस्तान मुनीन दृष्ट्वा स इलातीपुत्रो निज| हृदि दध्यो, धन्या एते मुनय एव वंदनीयाः. यतः-ते कह न वंदणिज्जा / रूवं दहण परकलत्ताणं // धाराहयत्व वसहा / वच्चंति महीं पलोअंता // 1 // अल सा होइ अकजे / पाणीतहे पंगुला सया होइ // | परतत्तीसु य बहिरा / जच्चंधापरकलत्तेसु // 2 // अहं त्वस्यां नीचकुलोत्पन्नायामपि नटकन्यययां विषयसेवनवांछया लुब्धो जातोऽस्मि, अतो मां धिगस्तु. एवमात्मनिंदातत्परस्य, शुभभावदृढचित्तस्य, शुभ CASI- Esxॐॐॐनना -A 5 %
Page #12
--------------------------------------------------------------------------
________________ E // 10 // // 10 // ध्यानाधिरूढस्य च तस्येलातीपुत्रस्य तत्रैव वंशोपरि स्थितस्य केवलज्ञानं समुत्पन्नं. तदेव शासनदेवता| दत्तमुनिलिंगोऽसौ कनककमलस्थितो भूपादीनामाश्चर्य जनयन् धमोपदेशं दत्तवान्. यथा-भो भव्या इह संसारे / मानुष्यमतिदुर्लभं // लब्धा पाथोनिधेमध्ये / चिंतारत्नमिवामलं // 1 // दान शोलतपोभाव-मये धर्मे चतुर्विधे // यतनीयं भवद्भिश्च / स्वर्गमोक्षसुखार्थिभिः // 2 // युग्मं / इत्यादिधोप| देशमाकर्ण्य राज्ञा तस्येलातीपुत्रस्य केवलिनोमुनेः पृष्टं, भो मुनिराज! भवतोऽस्यां नटकन्यायां रागः कथमभवत् ? तत श्रुत्वा स केवली जगौ, पूर्व वसंतपुराख्ये नगरे भूपपुरोहितो मदननामा द्विजोऽमृत्. | तस्य द्विजस्य मोहिन्यभिधा वल्लभा प्राणेभ्योऽप्यतिप्रियतमा बभूव. अथान्येास्ती दंपती सुगुरोः पार्श्वे धर्मोपदेशं श्रुत्वा प्रतिबुधो दीक्षां जगहतुः. एवं दीक्षितयोरपि तयोः परस्परं प्रोतिरतीवरागतंतुभिः स्यू तेव सर्वथा नात्रुटत्. इतोऽन्यदा केनचित् पृष्टा सा मोहिनी साध्वी जातिमदेन मुढात्मतया निजमुखेन | * स्वकीयं द्विजजातिसंभवमुत्तमं कुलं प्रशंसयामास. एवंविधं जातिमदसंभवं निजदुष्कर्म गुरूणामग्रेऽनाहै लोच्यैव मृता स्वगें गता. स द्विजोऽपि निजायुःक्षयेण मृतो देवलोके गतः. ततः स देव आयुःक्षये त CAXEC%ॐॐॐॐ
Page #13
--------------------------------------------------------------------------
________________ इलाती तो देवलोकाच्च्युत इलावर्धने पुरेऽहं श्रेष्टिपुत्रो जातः स मोहिनीजीवोऽपि स्वर्गाच्च्युत्वा पूर्वभवे जा तिमदकरणान्नटकुले पुत्रीत्वेन समुत्पन्ना. अथ पूर्वभवसंवंधेनास्मिन् भवेऽपि मम तस्यां भूरितरः स्नेहा | चरित्रं lal // 11 // हा जातः, तत् श्रुत्वा वैराग्यवासितहृदयास्ते नृपनटात्मजादयः सर्वेऽपि जैनधर्म प्रतिपेदिरे. क्रमेण ते सर्वे- 11 // 11 // | ऽपि दीक्षां गृहीत्वा तीव्रतपोऽग्निना कर्मेधनानि प्रज्वाल्य संप्राप्तकेवलज्ञाना मुक्तिं ययुः, // इति श्रीइलातीपुत्रचरित्रं समाप्तम् // श्रीरस्तु // आ चरित्रनी बीजी आवृत्ति श्रीशुभशीलगणीजीए रचेला कथाकोष नामना ग्रंथमांथी उद्धरोने तेनी / मूलभाषामां बनता प्रयासे सुधारो वधारो करी जामनगरनिवासी पंडित श्रावक हीरालाल हंसराजे स्वपरना श्रेयने माटे पोताना श्रीजैनभास्करोदय प्रेसमां छापीने प्रसिद्ध कयु. . // समाप्तोऽयं ग्रंथः गुरुश्रीमच्चारित्रविजयसुप्रसादात् // ॐॐॐॐॐ CACACAREऊन
Page #14
--------------------------------------------------------------------------
________________ DB922eeeelpaleeeeeeee 0000000 545454545454545454545454545454545454545454575 | श्रीइलातीपुत्रचरित्रं समाप्तम् 45454545 @@@@@delo 4444444444444444444444444544674 BeBe@@@@@@@@@@@@@Belo