Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 9
________________ वृत्तिस्तां 'वक्ष्ये' अभिधास्ये इति योगः, अहमित्यात्मनिर्देशः, तां च न स्वमनीषिकया वक्ष्ये किन्तु गुरूणामुपदेशो गुरूपदेशस्तस्मात् , अनेन च मोक्षार्थिना सर्वमेव गुरुपारतत्र्येणानुष्ठेयं न स्वातन्येणेत्यावेदितं भवति, तदनेन श्लोकपश्चा|र्द्धन षड्विधावश्यकार्थोऽस्याभिधेयत्वेन दर्शितो भवति, प्रस्तुतवृत्तेस्तदर्थव्याख्यारूपत्वात् , प्रयोजनं तु शिष्याचार्यभेदांविधा-परमपरं च, तत्र परं द्वयोरपि शिष्याचार्ययोः परमपदप्राप्तिरूपम् , अपरं त्वाचार्यस्य शिष्यानुग्रहः शिष्यस्य तु षड्विधावश्यकपरिज्ञानम् , एतदप्यनेन सूचितं भवति, सम्बन्धस्तूपायोपेयभावलक्षणः सामर्थ्यादवसीयते, तथाहि-अत्रोपेयं षड्विधावश्यकपरिज्ञानम् उपायस्तु प्रस्तुतवृत्तिरिति गम्यत इत्यार्थिः । एवं च परमश्रेयोनिवन्धने वृत्तिकरणे प्रवृत्तस्य भगवतः कश्चिद्विभीषिकाप्रायः सम्भवत्येवं वादी परः-निष्फलोऽयं भवद्वृत्तिकरणप्रयासः, त्वयैव तावच्छेषसूरिभिश्च सविस्तराया एतद्वत्तेर्विहितत्वादिति, एतन्निरासार्थमाह-'यद्यपी' त्यादि (१-८), यद्यप्येतद्व्यतिरेकेण मयाऽपराऽपि सविस्तरा वृत्तिविरचिता तथा शेषश्च सूरिभिः तथाऽपि सङ्के पात्-सद्धिप्ततरः क्रियते वृत्तिकरणप्रयासोऽयमिति योगः, किमर्थ ?-तत्र-सङ्केपे रुचिः येषां सत्त्वानां तदनुग्रहार्थ, विद्यन्ते हि बहवः प्रज्ञादिदोषात्सङ्क्षिप्तरुचयः प्राणिनो येषामेतद्वत्तितोऽप्यनुग्रहः स्यादिति भावार्थः, 'यद्यपि मया वृत्तिः कृते' त्येवंवादिनि च वृत्तिकारे चतुरशीतिसहस्रप्रमाणाऽनेनैवावश्यकवृत्तिरपरा कृताऽऽसीदिति प्रवादः सत्य इव लक्ष्यते इत्यार्यार्थः ॥ इह च नियुक्तिकारस्तावत्स्वयमेव 'आभिणिबोहियनाण'मित्यादिना भावमङ्गलं दर्शयिष्यति, प्रयोजनादित्रितयं नामादिमङ्गलं च सामर्थ्यगम्यमिति तद्दशयितुमाशङ्कापूर्वकं वृत्तिकार उपक्रमते-'इहावश्यके' त्यादि (१-९), अत्र च यथाबोधं विषमपदानि विवियन्ते, CCCCC DIRaw.jainelibrary.org Jain Educati For Private & Personal Use Only o nal

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 242