Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
धेयानि-तुल्यशब्दवाच्यानीत्यर्थः, तथाहि-यथा बाह्यः पृथुबुध्नोदराकार पदार्थो घटशब्दाभिधेयस्तथा तद्विषयप्रत्ययाभिधाने अपि, यतः केनचिद् घटे अन्तर्विकल्पिते अभिहिते चापरः कश्चिदन्यं पृच्छति-किमस्य चेतसि किं चासौ वक्ति ?, स प्रत्युत्तरयति-घटोऽस्य चेतसि घटं च वक्ति, न चैतत्प्रत्युत्तरमाभिधानप्रत्ययानामेकत्वमन्तरेण युज्यत इति भावार्थः, एवं घटवदन्यत्रापीन्द्रवह्यादावायोज्यं, ततः स्थितमेतत्-वह्निज्ञानमपि वह्निरित्युच्यत इति, नन्वेवं सति वह्निग्राहकज्ञानस्यैव वह्नित्वं न तज्ज्ञानवतः ? इत्याह-'अग्निरिति च यज्ज्ञान'मित्यादि ( ६-५), अग्निज्ञानाव्यतिरिक्तो ज्ञाताऽप्यग्निरिति भावः, ज्ञानतद्वतोर्व्यतिरेके दोषमाह-'अन्यथे'त्यादि (६-५) सुगम, नन्वग्ने स्वरादिराकारो भवति न च तद्राहकज्ञानस्यायमस्ति तत्कथमग्निज्ञानस्य तदव्यतिरिक्तस्य ज्ञानिनो वाऽग्नित्वम् ? इत्याशङ्कयाह-'न चानाकार'मित्यादि (६-६) सुगमम् , पुनरपि ज्ञानज्ञानिनो दे दोषमाह-'बन्धाद्यभावश्चेत्यादि ( ६-७), यदुक्तं दहनपचनप्रकाशनाद्यर्थक्रियाऽप्रसाधकत्वादिति, तत्राह-'न चानलः सर्व एवेत्यादि सुबोधं, "भंभामउंदमद्दल' (७-६) गाहा सुगमा, नवरं 'भम्भा' इति पृथुलमुखढक्काविशेषः, 'मुकुन्दमईलौ' मुरजविशेषावेव, केवलमेकतः सङ्कीर्णोऽन्यत्र तु वि|स्तीर्णो मुकुन्द इत्यभिधीयते मईलस्तूभयतोऽपि सम इति, कडंबा-करटिका तलिमा-तिउल्लिका शेषं प्रतीतमिति । 'अथवाऽभिनिवुध्यते तदि'त्यादि (७-१२), ननु कर्तारमन्तरेण कर्म न भवति, अभिनिबुध्यते तदित्यत्र तु मतिज्ञानं | कास्ति न कर्ता, तत्कथमिदं घटते ? इत्याह-'तस्य खसंविदितरूपत्वादिति(७-१३),स्वयमेव ज्ञानं नीलादिग्राहकत्वेनात्मानं व्यवच्छिनत्ति, न बाह्यो ज्ञानपरिच्छेदकः कर्त्ताऽन्वेषणीय इति भावः, नन्वोदनं पचति देवदत्त इत्यादिषु भेद एव
Jain Education
Emailurnal
For Private & Personal use only
LMw.jainelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 242