Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 13
________________ साक्षान्न प्रतिपाद्यत एव, अखण्डरूपस्यैव बुद्धिचतुष्टयस्याश्रुतनिश्रितत्वेन नन्द्यादिशास्त्रेषु प्रतिपादनाद्, अतो यत्रावग्रहादिभेदः प्रतिपाद्यते तत् सामर्थ्यात् श्रुतनिश्रितमेव भवतीति चेतसि व्यवस्थाप्य वृत्तिकृदाह-तत्र श्रुतनिश्रितमतिज्ञानखरूपप्रदर्शनायाहेति (९-१८), 'प्राप्तिनिबन्धनाख्यहेतुविशेषणार्थनिराकृतत्वादिति (१३-१०), इद-/ मत्र हृदयं-प्राप्तिनिबन्धनौ यौ तत्कृतावनुग्रहोपघातौ तच्छून्यत्वादिति हेतूपन्यासं कुर्वता युष्मद्दूषणं निरस्तमेव, न हि जलसूर्यादयः पदार्थाः प्राप्ताः सन्तश्चक्षुषी अनुगृह्णन्ति बाधन्ते वा, किन्तु स्वरूपमेव तेषां जलघृतवनस्पतिसूर्यादीनां यदुत विषयत्वेन चक्षुषाऽप्राप्ता अपि तथाविधपुद्गलपरिणामसद्भावात् तत्स्वास्थ्यं बाधां वा जनयन्तीति, अथावश्यं विषयप्राप्तिनिबन्धनावनुग्रहोपघातावभ्युपगम्यते तत्राह-'किं च यदि ही'त्यादि (१३-१०) सुगमं यावत् 'प्राक् प्रतिज्ञातयो रित्यादि (१३-१३), यदि हि सूक्ष्मा नायना रश्मयोऽभ्युपगम्यन्ते तदा यो प्राग् भवतैव वनस्पतिसूर्यादिभ्योऽनुग्रहोपघातौ प्रतिज्ञातौ तावपि न प्रामुत इति भावः ॥ 'इह कश्चिन्मन्दप्रयत्नो वक्ता भवतीत्यादि (१७-१०), अत्र महाप्रयत्नवक्तृपक्षेऽनन्तगुणवृद्ध्या वर्धमानानीति भणिष्यमाणत्वात् मन्दप्रयत्नवक्तृपक्षे स्तोकत्वेन विभिद्यन्त इति सामर्थ्या|त्साध्याहारं व्याख्येयं, कुतः स्तोकत्वेन भिद्यन्ते ? इत्याह-'असङ्ख्येयात्मकत्वात्' (१७-११), तानि हि वक्तुर्मन्दप्रय नत्वादसङ्ख्येयान्येव खण्डानि भवन्ति नानन्तानीति स्तोकान्येव भवन्ति, 'परिस्थूरत्वाच' यदि हि तानि सूक्ष्मतया | भिधेरंस्तदा बहून्यपि स्युः न च तथा भिद्यन्त इत्यतोऽपि स्तोकानीति भाव इति, 'यदा तु लोकान्तस्थितो वा भाषको वक्तीति' (१७-१८), अत्र 'तुः पुनरर्थे वाशब्दस्तु चशब्दार्थे, तस्य चैवं प्रयोगो द्रष्टव्यः-यदा च पुनर्लोका Jain Education a l For Privale & Personal use only Www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 242