________________
साक्षान्न प्रतिपाद्यत एव, अखण्डरूपस्यैव बुद्धिचतुष्टयस्याश्रुतनिश्रितत्वेन नन्द्यादिशास्त्रेषु प्रतिपादनाद्, अतो यत्रावग्रहादिभेदः प्रतिपाद्यते तत् सामर्थ्यात् श्रुतनिश्रितमेव भवतीति चेतसि व्यवस्थाप्य वृत्तिकृदाह-तत्र श्रुतनिश्रितमतिज्ञानखरूपप्रदर्शनायाहेति (९-१८), 'प्राप्तिनिबन्धनाख्यहेतुविशेषणार्थनिराकृतत्वादिति (१३-१०), इद-/ मत्र हृदयं-प्राप्तिनिबन्धनौ यौ तत्कृतावनुग्रहोपघातौ तच्छून्यत्वादिति हेतूपन्यासं कुर्वता युष्मद्दूषणं निरस्तमेव, न हि जलसूर्यादयः पदार्थाः प्राप्ताः सन्तश्चक्षुषी अनुगृह्णन्ति बाधन्ते वा, किन्तु स्वरूपमेव तेषां जलघृतवनस्पतिसूर्यादीनां यदुत विषयत्वेन चक्षुषाऽप्राप्ता अपि तथाविधपुद्गलपरिणामसद्भावात् तत्स्वास्थ्यं बाधां वा जनयन्तीति, अथावश्यं विषयप्राप्तिनिबन्धनावनुग्रहोपघातावभ्युपगम्यते तत्राह-'किं च यदि ही'त्यादि (१३-१०) सुगमं यावत् 'प्राक् प्रतिज्ञातयो रित्यादि (१३-१३), यदि हि सूक्ष्मा नायना रश्मयोऽभ्युपगम्यन्ते तदा यो प्राग् भवतैव वनस्पतिसूर्यादिभ्योऽनुग्रहोपघातौ प्रतिज्ञातौ तावपि न प्रामुत इति भावः ॥ 'इह कश्चिन्मन्दप्रयत्नो वक्ता भवतीत्यादि (१७-१०), अत्र महाप्रयत्नवक्तृपक्षेऽनन्तगुणवृद्ध्या वर्धमानानीति भणिष्यमाणत्वात् मन्दप्रयत्नवक्तृपक्षे स्तोकत्वेन विभिद्यन्त इति सामर्थ्या|त्साध्याहारं व्याख्येयं, कुतः स्तोकत्वेन भिद्यन्ते ? इत्याह-'असङ्ख्येयात्मकत्वात्' (१७-११), तानि हि वक्तुर्मन्दप्रय
नत्वादसङ्ख्येयान्येव खण्डानि भवन्ति नानन्तानीति स्तोकान्येव भवन्ति, 'परिस्थूरत्वाच' यदि हि तानि सूक्ष्मतया | भिधेरंस्तदा बहून्यपि स्युः न च तथा भिद्यन्त इत्यतोऽपि स्तोकानीति भाव इति, 'यदा तु लोकान्तस्थितो वा भाषको वक्तीति' (१७-१८), अत्र 'तुः पुनरर्थे वाशब्दस्तु चशब्दार्थे, तस्य चैवं प्रयोगो द्रष्टव्यः-यदा च पुनर्लोका
Jain Education
a
l
For Privale & Personal use only
Www.jainelibrary.org