SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ आव० हारि० टीप्पणं ॥३॥ कर्तृकर्मव्यवहारो दृष्टः, अत्र तु तदेव ज्ञानं परिच्छेदकं तदेव च परिच्छेद्यमिति भेदाभावात्कथं तद्व्यवहारः ? इत्याशयाह- नन्द्यां 'भेदोपचारादिति' (७-१३), तद्धि प्रदीपवत्प्रकाशस्वभावमेवोत्पद्यत इत्यसन्नपि कर्तृकर्मभावेन भेद उपचर्यत इति मतिज्ञाना भावः ॥ आह–'तिवग्गसुत्तत्थगहियपेयाले'त्यादि (९-१४), इदमुक्तं भवति-"भरनित्थरणसमत्था तिवग्गसुत्तत्थगहिअपेयाला । उभओलोगफलवई विणयसमुत्था हवइ बुद्धी ॥ ९४३ ॥" (४२३-३) इत्यस्यां वक्ष्यमाणगाथायां | त्रिवर्गसूत्रार्थगृहीतविचारा वैनयिकी बुद्धिर्भवतीति वक्ष्यति, धर्मार्थकामप्रतिपादकशास्त्रनिश्रितेतियावत् , तत्कथमौत्सत्तिक्यादिबुद्धिचतुष्टयस्याप्यश्रुतनिश्रितत्वमिति पूर्वपक्षभावार्थः, समाधानपक्षे त्वयं भावार्थः-यद्यप्योत्पत्तिक्यादिबुद्धीनां श्रुतनिश्रितत्वं साक्षान्नोक्तं तथाऽप्यवग्रहेहापायधारणानां श्रुतनिश्रितत्वमागमे प्रतिपादितमेव, अतो वैनयिक्या बुद्धेः सम्बन्धिनोऽवग्रहादयः श्रुतनिश्रिता अपि भवन्तु को दोषः?, ननु बुद्धीनामवग्रहादयःसूत्रे नोक्ता एव तत्कथमिदमुच्यते?, सत्यं, साक्षान्नोक्ताः सामर्थ्यात्तु गम्यन्त एव, न हि ता अप्यवग्रहादीनुल्लच्चय झगित्येव वर्तन्त इति युक्तिसङ्गतं, नन्वनया युक्त्या तर्हि सर्वासामपि बुद्धीनां श्रुतनिश्रितत्वं प्रामोति इति चेत्तदयुक्तम् , अश्रुतनिश्रितत्वेन विशेष्य तासां सिद्धान्ते प्रतिपादनात्, न च वक्तव्यं विशेषविषयमश्रुतनिश्रितत्वमिति तर्हि सर्वासामप्यस्तु, तस्य प्रायोवृत्तिविषयत्वात् , 'वैनयिकी विहाय (९-१७) तद्वृत्तरित्यर्थः, अतो व्यवस्थितमेतत्-वैनयिकीमपहाय शेषबुद्धीनामश्रुतनिश्रितत्वमिति, यद्येवमश्रुतनिश्रितानामौत्पत्तिक्यादिबुद्धीनां मध्ये किमिति श्रुतनिश्रिताया वैनयिक्या उपन्यासं नियुक्तिकारः करिष्यति Cl॥३॥ इत्याशङ्कयाह-'बुद्धिसाम्याचे'त्यादि (९-१७), अत्र च यदश्रुतनिश्रितं बुद्धिचतुष्टयलक्षणं मतिज्ञानं तस्यागमेऽवग्रहादिभेदः MUw.jainelibrary.org Jan Educati o For Private Personal Use Only nal
SR No.600145
Book TitleHaribhadriyavashyakavrutti Tippanakam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages242
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy