Book Title: Haribhadriyavashyakavrutti Tippanakam
Author(s): Hemchandrasuri Acharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 14
________________ नन्द्यांमति ज्ञाने भाषा व्याप्तिः न्तव्यवस्थितो भाषको वक्ति, एतदेव व्याचष्टे-'चतसृणां दिशामन्यतमस्यां वा दिशि नाड्या बहिरवस्थित' इति आव० हारिक (१७-१९), अयमत्र भावार्थः-यदि भाषकः किञ्चिन्नाड्या बहिर्विनिर्गत्य चतसृणां दिशामन्यतमस्यां वा दिशि स्वयम्भूरटीप्पणं मणपरकूललोकान्तेऽलोकस्य निकटीभूय वचनमुदीरयति तदा चतुरङ्गलवाहल्यो रज्वायामो दण्डः प्रथमसमयेऽन्तर्नाडी प्रविश्य स्वयम्भूरमणापरप्रान्ते लगति, ऊर्ध्वाधस्तु न सम्पूर्णदण्डप्रसरोऽस्ति, लोकस्खलितत्वादिति भावनीयं, ततश्च द्विती॥४॥ यसमये चतुरङ्गलबाहल्यो रज्जुविस्तर ऊर्ध्वाधस्तु चतुर्दशरज्वायामः कपाटाकारा(रोs)णुराशिःप्रधावति, तिर्यग्लोके तु दिग्दद्वयाणुविनिर्गमे स्थालकाकारः पुद्गलराशिर्भवति, तृतीयसमये तूवोधोव्यवस्थितकपाटे मन्थसिद्धिः, चतुर्थे त्वन्तरालपूर णमिति चतुर्भिः समयैर्लोकः पूरितो भवति, 'यदा तु विदिग्व्यवस्थितो वक्ती'त्यादि (१७-२०), अत्र किलैकस्मिन् समये विदिशो दिशि समागच्छन्ति पुद्गलाः, द्वितीयसमये त्वन्तर्नाडी प्रविशन्ति, शेषसमयत्रयं पूर्ववदेव, अत्र वृत्ताकारं लोकं मध्ये वृत्ताकारां बसनाडी च व्यवस्थाप्य दिग्विदिक्कल्पना भावनीया, तद्यथा-स्थापना-(0) अत्र च त्रिसम-| यपंक्षे चतुष्पञ्चसमयपक्षे च येऽनुश्रेणिव्यवस्थिता निष्कुटास्त एव पूर्यन्ते, वक्रनिष्कुटपूरणं तु न बुद्ध्यत एव, स्वल्पत्वाच्च न विवक्षितमिति लक्ष्यते इति, 'शेषदिक्षु पराघातद्रव्यसम्भवाद् द्वितीयसमय एव मन्थानसिद्धे'रि G त्यादि (१८-४ ), एतदुक्तं भवति–तानि हि भाषाद्रव्याणि वासकस्वभावानि, वास्यद्रव्याणि तु सर्वास्वपि दिक्षु विद्यन्ते, ततश्च यथा वह्निर्दाह्यं प्राप्य दहत्येव नोदास्ते तथाऽयमपि भाषाद्रव्यसमूहः प्रथमसमये सत्ता प्राप्य द्वितीयसमये सर्वा ORGANIS ॥४॥ ARGICS Jain Educa For Private & Personal Use Only Haw.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 242