Book Title: Gnata Dharmkathangasutram
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
।।१६९ ।।
धवलाभिर्वृत्ताभिरश्लिष्टाभिर्विशरारुत्वेन तीक्ष्णाभिः स्थिराभिः निश्चलत्वेन पीनाभिरुपचितत्वेन कुटिलाभिश्च वक्रतया दंष्ट्राभिरवगूढं व्याप्तं वदनं यस्य स तथा तं, विकोशितस्य- अपनीतकोशकस्य निरावरणस्येत्यर्थः धारास्यो:- धाराप्रधानखड्गयोर्यद्युगलं-द्वितयं तेन समसदृश्यौ - अत्यन्ततुल्ये तनुके- प्रतले चञ्चलं-विमुक्तस्थैर्यं यथा भवत्यविश्राममित्यर्थो गलन्त्यौ रसातिलौल्यात् लालाविमुञ्चन्त्यौ रसलोले-भक्ष्यरसलम्पटे चपले चञ्चले फुरुफुरायमाणे प्रकम्प्रे निर्लालिते - मुखान्निष्काशिते अग्रज अग्रभूते जिह्वे जिह्वाग्रे इत्यर्थो येन स तथा तं 'अवच्छियं'ति प्रसारितमित्येके, अन्ये तु यकारस्यालुप्तत्वात् 'अवयच्छियं' प्रसारितमुखत्वेन दृश्यमानमित्याहुः, 'महल्लं'ति महत् विकृतं - बीभत्सं लालाभिः प्रगलत् रक्तं च तालु-काकुन्दं यस्य स तथा तं, तथा हिङ्गुलकेन-वर्णकद्रव्यविशेषेण सगर्भं कन्दरलक्षणं बिलं यस्य स तथा तमिव 'अंजणगिरिस्स'त्ति विभक्तिविपरिणामादञ्जनगिरि-कृष्णवर्णपर्वतविशेषं तथाऽग्निज्वाला उद्गिरत् वदनं यस्य स तथा तं, अथवा 'अवच्छियेत्यादि हिंगलुए'त्यादि अग्निज्वाले 'त्यादि प्रत्यंतरे च कर्म्मधारयेण वक्ष्यमाणवदनपदस्य विशेषणं कार्यं यस्य तमित्येवंरूपश्च वाक्यशेषों द्रष्टव्य, तथा > अग्निज्वाला उद्गिरद्वदनं यस्य स तथा तं, 'आऊसिय'त्ति सङ्कुचितं यदक्षचर्म जलाकर्षणकोशस्तद्वत् 'उइट्ठ'त्ति अपकृष्टौ अपकर्षवन्तौ सङ्कुचितौ गण्डदेशौ यस्य स तथा तं, अन्ये त्वाहुः- आमूषितानि सङ्कटितानि अक्षाणि इन्द्रियाणि च चर्म च ओष्ठौ च गण्डदेशौ च यस्य स तथा तं,
चीना ह्रस्वा 'चिवड 'त्ति चिपटा-निम्ना वंका-वक्रा भग्नेव भग्ना- अयोघनकुट्टितेवेत्यर्थो नासिका यस्य स तथा तं रोषादागतो 'धमधमेंत 'त्ति प्रबलतया धलधमेंतत्ति शब्दं कुर्वाणो मारुतो वायुर्निष्ठरो निर्भर - खरपरुषः- अत्यन्तकर्कशः शुषिरयो:- रन्ध्रयोर्यत्र तत्तथा, तदेवंविधमवभुग्नं वक्रं नासिकापुटं यस्य तथा तं, इह च पदानामन्यथा निपात: प्राकृतत्वादिति, घाताय - पुरुषादिवधाय घाटाभ्यां वा मस्तकावयवविशेषाभ्यां उद्भटं विकरालं रचितमत एव भीषणं मुखं यस्य स तथा तं, ऊर्ध्वमुखे कर्णशष्कुल्यौ - कर्णावती ययोस्तौ तथा तौ च महान्ति-दीर्घाणि विकृतानि लोमानि ययोस्तौ तथा तौ च, 'संखालग'त्ति शङ्खवन्तौ च शङ्खयो:-अक्षिप्रत्यासन्नावयवविशेषयोः संलग्नौ -सम्बद्धावित्येके, लम्बमानौ च प्रलम्बौ चलितौ चलन्तौ कर्णौ यस्य स तथा तं, पिङ्गले-कपिले दीप्यमाने-भासुरे लोचने यस्य स तथा तं, भृकुटि - कोपकृतो भ्रूविकारः सैव तडिद् - विद्युद्यस्मिंस्तत्तथा तथाविधं पाठान्तरेण भ्रुकुटितं कृतभ्रुकुटि ललाटं यस्य स तथा तं, नरशिरोमालया परिणद्धं वेष्टितं चिन्हं-पिशाचकेतुर्यस्य सतथा तं, अथवा नरशिरोमालया यत्परिणद्धं परिणहनं तदेव चिन्हं यस्य स तथा तं, विचित्रैः-बहुविधैर्गोनसैः- सरीसृपविशेषैः सुबद्ध: परिकर सन्नाहो येन स तथा तं, 'अवहोलंत 'त्ति अवघोलयन्तो डोलायमाना:‘फुप्फुयायंत'त्ति फूत्कुर्वन्तो ये सर्पाः वृश्चिका गोधा: उन्दुरा नकुला: सरटाश्च तैर्विरचिता विचित्रा- विविधरूपवती वैकेक्षेण-उत्तरासङ्गेन मर्कटबन्धेन स्कन्धलम्बमात्रतया वा मालिका-माला यस्य स तं, भोग:-फण: क्रुरो-रौद्रो ययोस्तौ तथा तौ च कृष्णसर्पो च तौ धमधमायमानौ च तावेव लम्बमाने कर्णपूरे-कर्णाभरणविशेषौ यस्य स तथा तं, मार्जारश्रृगालौ
- ।।१६९ ।।

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320