Book Title: Gnata Dharmkathangasutram
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
अ.९
चलन
नई देहाद्धस्तामर्शनेनापनीयमानानि मलादिकमादायोद्वलंतीति उद्वर्तनानि - तान्येव विशेषस्तु लोकरूढिसमवसेय इति, स्नेहपानानि- द्रव्यविशेषपक्वघृतादि-पानानि । को वमनानि च प्रसिद्धानि विरेचनानि-अधोविरेका: स्वेदनानि- सप्तधान्यकादिभि:अवदहनानि - दम्भनानि अपस्नानानि-स्नेहापनयनहेतुद्रव्यसंस्कृतजलेन स्नानानि । ॐ अनुवासना:- चर्मयंत्रप्रयोगेणापानेन जठरे तैलविशेषप्रवेशनानि बस्तिकर्माणि - चर्मवेष्टनप्रयोगेण शिरःप्रभृतीनां स्नेहपूरणानि गुदे वा वादिक्षेपणानिक
निरुहा-अनुवासना एवं केवलं द्रव्यकृतो विशेष: शिरोवेधा - नाडीवेधनानि रुधिरमोक्षणानीत्यर्थ: तक्षणानि - त्वच: क्षुरप्रादिना तनूकरणानि प्रक्षणानि - हस्वानि र त्वचो विदारणानि शिरोबस्तय:-शिरसि बद्धस्य चर्मकोशस्य संस्कृततैलापूरलक्षणा, प्रागुक्तानि बस्तिकर्माणि सामान्यानि अनुवासना निरुहशिरोबस्तयस्तु तद्भेदाः का
तर्पणानि-स्नेहद्रव्यविशेषैर्वृहणानि पुटपाका: कुष्ठिकानां कणिकावेष्टितानामग्निना पचनानि अथवा पुटपाका: - पाकविशेषनिष्पन्ना औषधविशेषा: छल्लयो - धुर रोहिणीप्रभृतयः वल्ल्यो- गुडूचीप्रभृतयः कन्दादीनि प्रसिद्धानि, ऐतैरिच्छन्ति एकमपि रोगमुपशमयितुमिति २ । कई निबद्धाउए'त्ति प्रकृतिस्थित्यनुभागबन्धापेक्षया 'बंधपएसएत्ति प्रदेशबन्धापेक्षयेति ३। 'अंतनिग्घाइए'त्ति निर्घातितान्त; 'सव्वं पाणाइवायं
पच्चक्खामि' इत्यनेन यद्यपि सर्वग्रहणं तथापि तिरश्चां देशविरतिरेव, इहार्थे गाथेर “तिरियाणं चारित्तं निवारियं अह य तो पुणो तेसिं। सुव्वइ बहुयाणपिहु महव्वयारोहणं समए ॥१॥ न महव्वयसम्भावेवि
चरणपरिणामसम्भवो तेसिं । न बहुगुणाणंपिजओ केवलसंभूइपरिणामो ॥२॥' इति [तिरश्चां चारित्रं निवारितं, अथ च तहा पुनस्तेषाम् श्रूयते बहूनामपि महाव्रतारोपणं समये ॥१॥न महाव्रतसद्भावेऽपि चरणपरिणामसंभवस्तेषां । बहुगुणानामपि न यत: केवलसंभूतिपरिणाम: ॥२॥] । इह यद्यपि सूत्रे उपनयो नोक्तः तथाऽप्येवं द्रष्टव्य: - “संपन्नगुणोवि जओ सुसाहुसंसग्गिवज्जिओ पायं । पावइ गुणपरिहाणी दद्दरजीवोव्व मणियारो। ॥१॥ [संपन्नगुणोऽपि यत:
सुसाधुसंसर्गवर्जित: प्राय: । प्राप्नोति गुणपरिहाणिं दर्दुरजीव इव मणिकारः ॥१॥]त्ति, अथवा-तित्थयरवणंदणत्यं चलिओ भावेण पावए सग्गं । जह दद्दरदेवेणं पर Eg पत्तं वेमाणियसुरत्तं ॥२॥' [तीर्थकरवन्दनार्थ चलितो भावेन प्राप्नोति स्वर्गम्। यथा दर्दुरदेवेन प्राप्तं वैमानिकसुरत्वम् ॥१॥] त्ति ॥ सूत्रं १०१ ॥
त्रयोदशज्ञातविवरणं समाप्तम् ॥१३॥
॥२२६ ॥

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320