Book Title: Gnata Dharmkathangasutram
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 284
________________ ज्ञाताधर्मकथाइम् ॥२८४ ।। 'पादकुक्कुट-कुक्कुटविशेष: स च तथा बोडं-कर्पासीफलं तस्य समुद्रकं सम्पुटमभिन्नावस्थं कर्पासीफलमित्यर्थः तच्चेति द्वन्द्वस्तत एषामिव श्यामो वर्णो येषां ते तथा, इह च सर्वत्र द्वितीयार्थे प्रथमा, अतस्तानिति, तथा गोधूमो-धान्यविशेषः तद्वद् गौरमङ्गं येषां ते तथा गौरी या पाटला- पुष्पजातिविशेषस्तद्वद्ये गौरास्ते तथा तत: पदद्वयस्य कर्मधारय; गोधूमगौराङ्गगौरपाटलागौरास्तान्, तथा प्रवालवर्णांश्च-विद्रुमवर्णान् अभिनवपल्लववर्णान् वा रक्तानित्यर्थः धूमवर्णाश्च धूम्रवर्णान् पाण्डुरानित्यर्थ; केइ'त्ति कांश्चिन्न सर्वानित्यर्थः इदं च हरीत्यत आरभ्य बोण्डशब्दे कल्पितार्द्धरूपकं भवति ॥१ ॥ तलपत्राणि - तालाभिधानवृक्षपर्णानिष्ठा . च-मदिरा तद्वद्वर्णो येषां ते तलपत्ररिष्ठावर्णास्तान्, तथा शालिवर्णांश्च शुक्लानित्यर्थ; 'भासवण्णा य'त्ति भस्मवर्णांश्च भाषो वा पक्षिविशेषस्तद्वर्णांश्च कांश्चिदित्यर्थः, 'जंपियतिलकीडगा य'त्ति यापिता:- कालान्तरप्रापिता ये तिलाः- धान्यविशेषास्तेषां ते कीटका: - जीवविशेषास्तद्वंद् ये वर्णसाधर्म्यात् ते तथा ताश्च यापिततिलकीटकांश्च 'सोलोयरिट्ठगा यत्ति सावलोकं सोद्योतं यद्रिष्ठकं-रत्नविशेषस्तद्वधे वर्णसाधर्म्यात् ते सावलोकरिष्ठास्तांश्च 'पुंडपइया वत्ति पुण्डानि धवलानि पदानि - पादा येषां ते तथा ते एव पुण्डपदिकास्तांश्च तथा कनकपृष्ठान् कांश्चिदितिरूपकं ॥ २ ॥ 'चक्कागपिट्ठवण्ण'त्ति चक्रवाक:-पक्षिविशेषस्तत्पृष्ठस्येव वर्णो येषां ते तथा तान् सारसवर्णांश्च हंसवर्णान् कांश्चिद् इति पद्यार्द्ध, 'केतित्थ अब्भवण्णेति कांश्चिदत्ताभ्रवर्णान् 'पक्कतलमेहवण्णा य'त्ति पक्वपत्रो यस्तलः- तालवृक्षः स च मेघश्चेति विग्रहस्तस्येव वर्णों येषां ते तथा तान् 'पविरलमेहवण्ण'त्ति क्वचित्पाठः, तथा 'बहुवण्णा केइ'त्ति बभ्रुवर्णान् कांश्चित्पिङ्गानित्यर्थ, बाहुवर्णानिति क्वचित् दृश्यते, रूपकमिदं ॥३ ॥ तथा 'संझाणुरागसरिस 'त्ति सन्ध्यानुरागेण सदृशान् वर्णत इत्यर्थः, 'सुयमुहगुंजद्धरागसरिसत्थकेइ 'त्ति शुकमुखस्य गुञ्जार्द्धस्य च प्रतीतस्य रागेण सदृशो रागो येषां ते तथा तान् अत्र - इह कांश्चिदित्यर्थ 'एलापाडलगोर 'ति एलापाटला-पाटलाविशेषोऽथवा एला च पाटला च तद्भवत् गौरा ये ते तथा तान्, 'सामलयागवलसामला पुणो केइ त्ति श्यामलता- प्रियङ्गलता गवलं च-महिषशृङ्गं तद्वत् श्यामलान्-श्यामान् पुनः कांश्चिदिति रूपकं ॥४ ॥ 'बहवे अन्ने य निद्देसे'त्ति एकवर्णेनाव्यपदेश्यानित्यर्थ, अत एवाह 'सामाकासीसरत्तपिय'त्ति श्यामकाश्च काशीसं रागद्रव्यं तद्वद्ये ते कासीसास्ते च रक्ताश्च पीताश्च ये ते तथा तान् शबलानित्यर्थ, 'अच्वंतविसुद्धावि य णं त निर्दोषांश्चेत्यर्थः णमित्यलङ्कारे 'आइण्णज़ाइकुलविणीयगयमच्छर 'त्ति आकीर्णानां जवादिगुणयुक्तानां सम्बन्धिनी जातिकुले येषां ते तथा ते च ते विच गतमत्सराश्च-परस्परासहनवर्जिता निर्मसका वेति तथा तान् 'ह्यवर'त्ति हयानां अश्वानां मध्ये वरान् प्रधानानित्यर्थ, 'जहोवदेसकमवाहिणोऽवि य णं ति यथोपदेशक्रममिव-उपदिष्टपरिपाट्य-नतिक्रमेणैव वोढुं शीलं येषां ते तथा तानपि च णमित्यलङ्कारे, 'सिक्खाविणीयविणय'त्ति शिक्षयेव- अश्वदमकपुरुष शिक्षाकरणादिव विनीत:- अवाप्तः विनयो यैस्ते तथा तान्, 'लंघणवग्गणधावणधोरणतिवईजइणसिक्खियगइ 'त्ति लङ्घनं गर्त्तादीनां अ. १६ नृपागमः सू. १२३ ॥२८४ ॥

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320