Book Title: Gnata Dharmkathangasutram
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
'लोहियपाणि' प्राणविकर्तनो (नतो) लोहितौ रक्तरक्ततया पाणी-हस्तौ यस्य स तथा, 'चंडे' चण्ड: उत्कटरोषत्वात्, 'रुद्दे' रौद्रो निस्तूंशत्वात् क्षुद्रः क्षुद्रकर्मकारित्वात्, कर साहसिक:-असमीक्षितकारित्वात्, 'उक्कंवणवंचणमायानियडिकवडकूडसाइसंपओगबहुले' उत्कञ्चनमुत्कोचा, मुग्धं प्रति तत्प्रतिरूपदानादिकमसद्वयवहारं का
कर्तुं प्रवृत्तस्य पार्श्ववर्तिविचक्षणभयात् क्षणं यत्तदकरणं तदुत्कञ्चनमित्यन्ये, वञ्चन-प्रतारणं माया-परवञ्चनबुद्धिः निकृति:-बकवृत्त्या कुर्कुटादिकरणं १२९५ ॥ अधिकोपचारकरणेन परच्छलनमित्यन्ये मायाप्रच्छादनार्थं मायान्तरकरणमित्यन्ये कपट-वेषादिविपर्ययकरणं कूटं कार्षापणतुलाव्यवस्थापत्रादीनामन्यथाकरणं 3 'साइत्ति अविश्रम्भः एषां सम्प्रयोग:-प्रवर्तनं तेन बहुल: सवा बहुलो यस्य स तथा, निस्सीले' अपगतशुभस्वभाव:'निव्वए' अणुव्रतरहित:'निर्गुणो' गुणवतरहित:
"निष्पच्चक्खाणपोसहोववासे' अविद्यमानपौरुष्यादिप्रत्याख्यानोऽसत्पर्वदिनोपवासश्चेत्यर्थः 'बहूणं दुपयचउप्पयमियपसुपक्खिसिरीसवाणं घायाए वहाए उच्छायणयाए अधम्मकेऊसमुट्ठिए'त्ति प्रतीतं नवरं घात:-प्रहारो वधो-हिंसा व्यत्ययो वा उच्छादना-जातेरपि व्यवच्छेदनं तदर्थ अधर्मकेतुः' पापप्रधान: केतु-ग्रहविशेष: स इव य: स तथा, द्विपदादिसत्त्वानां हि क्षयाय यथा केतुर्ग्रहः समुद्गच्छति तथाऽयं समुत्थित इति भावना, बहुनगरेषु निर्गतं-जनमुखानिःसृतं यश:-ख्यातिर्यस्य स तथा, सूरो-विक्रमी दृढप्रहारी-गाढप्रहारः शब्दं लक्षीकृत्य विध्यति य: स: शब्दवेधी, चौरादीन्येकादश पदानि प्रतीतानि, नवरं ग्रन्थिभेदका:-न्यासकान्यथाकारिण: घुर्घरकादिना वा ये ग्रन्थीन् छिन्दन्ति, सन्धिच्छेदका ये गृहभित्तिसन्धीन् विदारयन्ति, क्षात्रखानका ये सन्धानवर्जितभित्ती: काणयन्ति, 'अणधारय'ति ऋणं-व्यवहरकदेयं द्रव्यं तद्ये तेषां धारयन्ति, खंडरक्षा-दण्डपाशिका, तथा छिन्ना-हस्तादिषु भिन्ना नासिकादौ बाह्या-देशात्र आहता-दण्डादिभिः ततो द्वन्द्व, कुडंग-वंशादिगहनं तद्वद्यो दुर्गमत्वेन रक्षार्थमाश्रयणीयत्वसाधर्म्यात् स तथा, 'नित्थाण'ति स्थानभ्रष्टं अग्गअसिलट्ठिगाहित्ति पुरस्तात् खड्गयष्टिग्राह: अथवा अग्रय:-प्रधान: ४ ॥सूत्रं १४३॥
तते णं से चिलाए चोरसेणावती अन्नया कयाई विपुलं असण ४ उवक्खडावेत्ता पंच चोरसए आमंतेइ तओ पच्छा ण्हाए कयबलिकम्मे भोयणमंडवंसि तेहिं पंचहिं चोरसएहिं सद्धि विपुलं असणं ४ सुरं च जाव पसण्णं च आसाएमाणे ४ विहरति, जिमियभुत्तुत्तरागए ते पंच चोरसए विपुलेणं धूवपुष्फगंधमल्लालंकारेणं सक्कारेति सम्माणेति २ एवं वयासी-एवं खलु देवाणुप्पिया! रायगिहे णयरे धण्णे णामं सत्थवाहे अड्डे, तस्स णं धूया भद्दाए अत्तया पंचण्हं पुत्ताणं अणुमग्गजातिया सुंसुमाणामं दारिया यावि होत्था अहीणा जाव सुरूवा, तं गच्छामो णं देवाणुप्पिया! धण्णस्स सत्थवाहस्स गिहं विलुंपामो तुब्भं विपुले धणकणग- रयणमणि-मोत्तियसंख-सिलप्पवाले ममं सुंसुमा दारिया, तते णं ते पंच चोरसया चिलायस्स एयमटुं पडिसुणेति १।।
॥२९५॥

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320