________________
ज्ञाताधर्मकथाइम्
॥२८४ ।।
'पादकुक्कुट-कुक्कुटविशेष: स च तथा बोडं-कर्पासीफलं तस्य समुद्रकं सम्पुटमभिन्नावस्थं कर्पासीफलमित्यर्थः तच्चेति द्वन्द्वस्तत एषामिव श्यामो वर्णो येषां ते तथा, इह च सर्वत्र द्वितीयार्थे प्रथमा, अतस्तानिति, तथा गोधूमो-धान्यविशेषः तद्वद् गौरमङ्गं येषां ते तथा गौरी या पाटला- पुष्पजातिविशेषस्तद्वद्ये गौरास्ते तथा तत: पदद्वयस्य कर्मधारय; गोधूमगौराङ्गगौरपाटलागौरास्तान्, तथा प्रवालवर्णांश्च-विद्रुमवर्णान् अभिनवपल्लववर्णान् वा रक्तानित्यर्थः धूमवर्णाश्च धूम्रवर्णान् पाण्डुरानित्यर्थ; केइ'त्ति कांश्चिन्न सर्वानित्यर्थः इदं च हरीत्यत आरभ्य बोण्डशब्दे कल्पितार्द्धरूपकं भवति ॥१ ॥ तलपत्राणि - तालाभिधानवृक्षपर्णानिष्ठा . च-मदिरा तद्वद्वर्णो येषां ते तलपत्ररिष्ठावर्णास्तान्, तथा शालिवर्णांश्च शुक्लानित्यर्थ; 'भासवण्णा य'त्ति भस्मवर्णांश्च भाषो वा पक्षिविशेषस्तद्वर्णांश्च कांश्चिदित्यर्थः, 'जंपियतिलकीडगा य'त्ति यापिता:- कालान्तरप्रापिता ये तिलाः- धान्यविशेषास्तेषां ते कीटका: - जीवविशेषास्तद्वंद् ये वर्णसाधर्म्यात् ते तथा ताश्च यापिततिलकीटकांश्च 'सोलोयरिट्ठगा यत्ति सावलोकं सोद्योतं यद्रिष्ठकं-रत्नविशेषस्तद्वधे वर्णसाधर्म्यात् ते सावलोकरिष्ठास्तांश्च 'पुंडपइया वत्ति पुण्डानि धवलानि पदानि - पादा येषां ते तथा ते एव पुण्डपदिकास्तांश्च तथा कनकपृष्ठान् कांश्चिदितिरूपकं ॥ २ ॥ 'चक्कागपिट्ठवण्ण'त्ति चक्रवाक:-पक्षिविशेषस्तत्पृष्ठस्येव वर्णो येषां ते तथा तान् सारसवर्णांश्च हंसवर्णान् कांश्चिद् इति पद्यार्द्ध, 'केतित्थ अब्भवण्णेति कांश्चिदत्ताभ्रवर्णान् 'पक्कतलमेहवण्णा य'त्ति पक्वपत्रो यस्तलः- तालवृक्षः स च मेघश्चेति विग्रहस्तस्येव वर्णों येषां ते तथा तान् 'पविरलमेहवण्ण'त्ति क्वचित्पाठः, तथा 'बहुवण्णा केइ'त्ति बभ्रुवर्णान् कांश्चित्पिङ्गानित्यर्थ, बाहुवर्णानिति क्वचित् दृश्यते, रूपकमिदं ॥३ ॥ तथा 'संझाणुरागसरिस 'त्ति सन्ध्यानुरागेण सदृशान् वर्णत इत्यर्थः, 'सुयमुहगुंजद्धरागसरिसत्थकेइ 'त्ति शुकमुखस्य गुञ्जार्द्धस्य च प्रतीतस्य रागेण सदृशो रागो येषां ते तथा तान् अत्र - इह कांश्चिदित्यर्थ 'एलापाडलगोर 'ति एलापाटला-पाटलाविशेषोऽथवा एला च पाटला च तद्भवत् गौरा ये ते तथा तान्, 'सामलयागवलसामला पुणो केइ त्ति श्यामलता- प्रियङ्गलता गवलं च-महिषशृङ्गं तद्वत् श्यामलान्-श्यामान् पुनः कांश्चिदिति रूपकं ॥४ ॥ 'बहवे अन्ने य निद्देसे'त्ति एकवर्णेनाव्यपदेश्यानित्यर्थ, अत एवाह 'सामाकासीसरत्तपिय'त्ति श्यामकाश्च काशीसं रागद्रव्यं तद्वद्ये ते कासीसास्ते च रक्ताश्च पीताश्च ये ते तथा तान् शबलानित्यर्थ, 'अच्वंतविसुद्धावि य णं त निर्दोषांश्चेत्यर्थः णमित्यलङ्कारे 'आइण्णज़ाइकुलविणीयगयमच्छर 'त्ति आकीर्णानां जवादिगुणयुक्तानां सम्बन्धिनी जातिकुले येषां ते तथा ते च ते विच गतमत्सराश्च-परस्परासहनवर्जिता निर्मसका वेति तथा तान् 'ह्यवर'त्ति हयानां अश्वानां मध्ये वरान् प्रधानानित्यर्थ, 'जहोवदेसकमवाहिणोऽवि य णं ति यथोपदेशक्रममिव-उपदिष्टपरिपाट्य-नतिक्रमेणैव वोढुं शीलं येषां ते तथा तानपि च णमित्यलङ्कारे, 'सिक्खाविणीयविणय'त्ति शिक्षयेव- अश्वदमकपुरुष शिक्षाकरणादिव विनीत:- अवाप्तः विनयो यैस्ते तथा तान्, 'लंघणवग्गणधावणधोरणतिवईजइणसिक्खियगइ 'त्ति लङ्घनं गर्त्तादीनां
अ. १६ नृपागमः सू. १२३
॥२८४ ॥