________________
।।१६९ ।।
धवलाभिर्वृत्ताभिरश्लिष्टाभिर्विशरारुत्वेन तीक्ष्णाभिः स्थिराभिः निश्चलत्वेन पीनाभिरुपचितत्वेन कुटिलाभिश्च वक्रतया दंष्ट्राभिरवगूढं व्याप्तं वदनं यस्य स तथा तं, विकोशितस्य- अपनीतकोशकस्य निरावरणस्येत्यर्थः धारास्यो:- धाराप्रधानखड्गयोर्यद्युगलं-द्वितयं तेन समसदृश्यौ - अत्यन्ततुल्ये तनुके- प्रतले चञ्चलं-विमुक्तस्थैर्यं यथा भवत्यविश्राममित्यर्थो गलन्त्यौ रसातिलौल्यात् लालाविमुञ्चन्त्यौ रसलोले-भक्ष्यरसलम्पटे चपले चञ्चले फुरुफुरायमाणे प्रकम्प्रे निर्लालिते - मुखान्निष्काशिते अग्रज अग्रभूते जिह्वे जिह्वाग्रे इत्यर्थो येन स तथा तं 'अवच्छियं'ति प्रसारितमित्येके, अन्ये तु यकारस्यालुप्तत्वात् 'अवयच्छियं' प्रसारितमुखत्वेन दृश्यमानमित्याहुः, 'महल्लं'ति महत् विकृतं - बीभत्सं लालाभिः प्रगलत् रक्तं च तालु-काकुन्दं यस्य स तथा तं, तथा हिङ्गुलकेन-वर्णकद्रव्यविशेषेण सगर्भं कन्दरलक्षणं बिलं यस्य स तथा तमिव 'अंजणगिरिस्स'त्ति विभक्तिविपरिणामादञ्जनगिरि-कृष्णवर्णपर्वतविशेषं तथाऽग्निज्वाला उद्गिरत् वदनं यस्य स तथा तं, अथवा 'अवच्छियेत्यादि हिंगलुए'त्यादि अग्निज्वाले 'त्यादि प्रत्यंतरे च कर्म्मधारयेण वक्ष्यमाणवदनपदस्य विशेषणं कार्यं यस्य तमित्येवंरूपश्च वाक्यशेषों द्रष्टव्य, तथा > अग्निज्वाला उद्गिरद्वदनं यस्य स तथा तं, 'आऊसिय'त्ति सङ्कुचितं यदक्षचर्म जलाकर्षणकोशस्तद्वत् 'उइट्ठ'त्ति अपकृष्टौ अपकर्षवन्तौ सङ्कुचितौ गण्डदेशौ यस्य स तथा तं, अन्ये त्वाहुः- आमूषितानि सङ्कटितानि अक्षाणि इन्द्रियाणि च चर्म च ओष्ठौ च गण्डदेशौ च यस्य स तथा तं,
चीना ह्रस्वा 'चिवड 'त्ति चिपटा-निम्ना वंका-वक्रा भग्नेव भग्ना- अयोघनकुट्टितेवेत्यर्थो नासिका यस्य स तथा तं रोषादागतो 'धमधमेंत 'त्ति प्रबलतया धलधमेंतत्ति शब्दं कुर्वाणो मारुतो वायुर्निष्ठरो निर्भर - खरपरुषः- अत्यन्तकर्कशः शुषिरयो:- रन्ध्रयोर्यत्र तत्तथा, तदेवंविधमवभुग्नं वक्रं नासिकापुटं यस्य तथा तं, इह च पदानामन्यथा निपात: प्राकृतत्वादिति, घाताय - पुरुषादिवधाय घाटाभ्यां वा मस्तकावयवविशेषाभ्यां उद्भटं विकरालं रचितमत एव भीषणं मुखं यस्य स तथा तं, ऊर्ध्वमुखे कर्णशष्कुल्यौ - कर्णावती ययोस्तौ तथा तौ च महान्ति-दीर्घाणि विकृतानि लोमानि ययोस्तौ तथा तौ च, 'संखालग'त्ति शङ्खवन्तौ च शङ्खयो:-अक्षिप्रत्यासन्नावयवविशेषयोः संलग्नौ -सम्बद्धावित्येके, लम्बमानौ च प्रलम्बौ चलितौ चलन्तौ कर्णौ यस्य स तथा तं, पिङ्गले-कपिले दीप्यमाने-भासुरे लोचने यस्य स तथा तं, भृकुटि - कोपकृतो भ्रूविकारः सैव तडिद् - विद्युद्यस्मिंस्तत्तथा तथाविधं पाठान्तरेण भ्रुकुटितं कृतभ्रुकुटि ललाटं यस्य स तथा तं, नरशिरोमालया परिणद्धं वेष्टितं चिन्हं-पिशाचकेतुर्यस्य सतथा तं, अथवा नरशिरोमालया यत्परिणद्धं परिणहनं तदेव चिन्हं यस्य स तथा तं, विचित्रैः-बहुविधैर्गोनसैः- सरीसृपविशेषैः सुबद्ध: परिकर सन्नाहो येन स तथा तं, 'अवहोलंत 'त्ति अवघोलयन्तो डोलायमाना:‘फुप्फुयायंत'त्ति फूत्कुर्वन्तो ये सर्पाः वृश्चिका गोधा: उन्दुरा नकुला: सरटाश्च तैर्विरचिता विचित्रा- विविधरूपवती वैकेक्षेण-उत्तरासङ्गेन मर्कटबन्धेन स्कन्धलम्बमात्रतया वा मालिका-माला यस्य स तं, भोग:-फण: क्रुरो-रौद्रो ययोस्तौ तथा तौ च कृष्णसर्पो च तौ धमधमायमानौ च तावेव लम्बमाने कर्णपूरे-कर्णाभरणविशेषौ यस्य स तथा तं, मार्जारश्रृगालौ
- ।।१६९ ।।