________________
ध्ययन
'तालजंघ' मित्यादि तालो-वृक्षविशेष: स च दीर्घस्कन्धो भवति ततस्तालवज्जङ्घ यस्य तत्तथा, 'दिवंगयाहिं बाहाहिति आकाशप्राप्ताभ्यामतिदीर्घाभ्यां कर बाहुभ्यां युक्तमित्यर्थ: मसिमूसगमहिसकालगं'ति मषी-कज्जलं मूषक: उन्दुरविशेष: अथवा मषीप्रधाना मूषा-ताम्रादिधातुप्रतापनभाजनं मषीमूषा महिषश्च प्रतीत
कार एव तद्वत्कालकं यत्तत्तथा भरियमेहवण्णं'ति जलभृतमेघवर्णमित्यर्थ; तथा लम्बोष्ठं निग्गयग्गदंत'ति निर्गतानि मुखादग्राणि येषां ते तथा निर्गताग्रा दन्ता यस्य ज्ञाताधर्मकथाङ्गम् तत्तथा,'निल्लालियजमलजुयलजीहंति निर्लालितं-विवृतमुखानिःसारितं यमलं-समं युगलं-द्वयं जिह्वयोर्येन तत्तथा 'आऊसियवयणगंडदेसं'ति आऊसियत्ति
अ.८
मल्ल्यप्रविष्टौ वदने गण्डदेशौ-कपोलभागौ यस्य तत्तथा 'चीणचिपिडनासियंति चीना-ह्रस्वा चिपिटा च-निम्ना नासिका यस्य तत्तथा 'विगयभुग्गभुमर्य'ति ॥१६८॥
विकृते-विकारवत्यौ भुग्नेभग्ने इत्यर्थ; पाठान्तरेण 'भुग्गभग्गे' अतीव वक्रे ध्रुवौ यस्य तत्तथा, 'खज्जोयगदित्तचक्खुरागं'ति खद्योतका-ज्योतिरिङ्गणा: कोई सू.७० तद्वद्दीप्तश्चक्षूरागो-लोचनरक्तत्वं यस्य तत्तथा, उत्त्रासनकं भयंकरं विशालवक्षो-विस्तीर्णोर-स्थलं विशालकुक्षि-विस्तीर्णोदरदेशं एवं प्रलम्बकुक्षि र पहसियपयलियपयडियगत्त'ति प्रहसितानि-हसितुमारब्धानि प्रचलितानि च स्वरूपात् प्रवलिकानि वा-प्रजातवलीकानि प्रपतितानि च-प्रकर्षेण श्लथीभूतानि
गात्राणि यस्य तत्तथा, वाचनान्तरे 'विगयभुग्गभुमय-पहसियपयलिय-पयडियफुलिंगखज्जोयदित्तचक्खुराग'ति पाठः, तत्र विकृते भग्ने ध्रुवौ प्रहसिते च र र प्रचलिते प्रपतिते यस्य स्फुलिङ्गवत् खद्योतकवच्च दीप्तश्चक्षुरागश्च यस्य तत्तथा, पणच्चमाण' मित्यादि विशेषणपञ्चकं प्रतीतं, 'नीलुप्पले'त्यादौ गवलं-महिषशृङ्गंध RO अतसी-मालवकदेज्ञप्रसिद्धो धान्यविशेष, 'खुरहारं'ति क्षुरस्येव धारा यस्य स तथा तमसिं-खड्गं, क्षुरो ह्यतितीक्ष्णधारो भवत्यन्यथा केशानाममुण्डनादिति REE
क्षुरेणोपमा खड्गधारायाः कृतेति, अभिमुखमापतत् पश्यन्ति सर्वेऽपि सांयात्रिका, तत्रार्हनकवर्जा यत् कुर्वन्ति तद्दर्शयितुमुक्तमेव पिशाचस्वरूपं सविशेषं तेषां पूजा र तद्दर्शनं चानुवदन्निदमाह-तए ण'मित्यादि ३ ।। स ततस्ते अर्हन्नकवर्जा: सांयात्रिका: पिशाचरूपं वक्ष्यमाणविशेषणं पश्यन्ति, दृष्ट्वा च बहूनामिन्द्रादीनां बहून्युपयाचितशतान्युपयाचितवन्तस्तिष्ठन्तीति
र समुदायार्थः, अथवा तए णं'ति'अरहन्नगवज्जा' इत्यादि गमान्तरं 'आगासदेवयाओ नच्चंति' इतोऽनन्तरं द्रष्टव्यम् अत एव वाचनान्तरे नेदुमुपलभ्यते, उपलभ्यते र चैवम्-'अभिमुहं आवयमाणं पासंति, तए णं ते अरहन्नगवज्जा नावावाणियगा भीया' इत्यादि, तत्र 'तालपिसायं'ति तालवृक्षाकारोऽति दीर्घत्वेन पिशाच:
तालपिशाच: तं, विशेषणद्वयं प्रागिव, 'फुट्टसिरं'ति स्फुटितम्-अबन्धत्वेन विकीर्णं शिर इति-शिरोजातत्वात् केशा यस्य स तथा तं भ्रमरनिकरवत् वरमाषराशिवत्त
महिषवच्च कालको य: स तथा तं, भृतमेघवर्णं तथैव, सूर्णमिवधान्यशोधकभाजनविशेषवत् नखा यस्य स सूर्पनख: तं, 'फालसदृशजिह्व'मिति अब फालं-द्विपञ्चाशत्पलप्रमाणो लोहमयो दिव्यविशेषस्तच्च वह्रिप्रतापितमिह ग्राह्यं तत्साधर्म्य चेह जिह्वाया वर्णदीप्तिदीर्घत्वादिभिरिति, लम्बोष्ठं प्रतीतं ना