SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ 'ओसहाणं'ति त्रिकटुकादीनां 'भेसज्जाण यत्ति पथ्यानामाहारविशेषाणां अथवा ओषधानां-एकद्रव्यरूपाणां भेषजानां-द्रव्यसंयोगरूपाणां को आवरणानां-अङ्गरक्षकादीनां बोधिस्थप्रक्षराणां च १ । म 'अज्जे'त्यादि,आर्य !-हे पितामह ! तात !-हे पित: ! हे भ्रात: ! हे मातुल ! हे भागिनेय ! भगवता समुद्रेण अभिरक्ष्यमाणा यूयं जीवत: भद्रं च 'भेत्ति भवतांक भवत्विति गम्यते, पुनरपि लब्धार्थान् कृतकार्यान् अनघान् समग्रान्, अनघत्वं-निर्दूषणतया समग्रत्वम्-अहीनधनपरिवारतया, निजकं गृहं 'हव्वं'ति शीघ्रमागतान् । पश्याम इतिकृत्वा-इत्याभिधाय 'सोमाहिति निर्विकारत्वात् 'निद्धाहिति सस्नेहत्वात् 'दीहाहिति दूरं यावदवलोकनात् 'सप्पिवासाहिति सपिपासाभिः पुनदर्शनाकाङ्क्षावतीभिर्दर्शनातृप्ताभिर्वा 'पप्पुयाहिंति प्रप्लुताभि: अश्रुजला भि: 'समाणिएसुति समापितेषु दत्तेषु नावीति गम्यते सरसरक्तचन्दनस्य दद्दरण-चपेटाप्रकारेण पञ्चाङ्गलितलेषु हस्तकेष्वित्यर्थ: 'अणुक्खित्तंसी ति अनूत्क्षिप्ते-पश्चादुत्पार्टिते धूपे पूजितेषु समुद्रवातेषु नौसांयात्रिकप्रक्रियया । इसमुद्राधिपदेवपादेषु वा 'संसारियासु वलयबाहासु'त्ति स्थानान्तरादुचितस्थाननिवेशितेषु दीर्घकाष्ठलक्षणबाहुषु आवल्लकेष्विति सम्भाव्यते, तथा उच्छितेषु र ऊर्लीकृतेषु सितेषु ध्वजाग्रेषु-पताकाग्रेषु पटुभिः पुरुषैः पटु वा यथा भवतीत्येवं प्रवादितेषु तूर्येषु जयिकेषु-जयावहेषु सर्वशकुनेषु-वायसादिषु गृहीतेषु राजवरशासनेषु-आज्ञासु पट्टकेषु वा प्रक्षुभितमहासमुद्ररवभूतमिव तदात्मकमिव तं प्रदेशमिति गम्यते 'तओ पुस्समाणवो वक्कमुयाहुत्ति ततोऽनन्तरं मागधो मङ्गलवचनं ब्रवीति स्म इत्यर्थ: तदेवाह-सर्वेषामेव 'भे' भवतामर्थसिद्धिर्भवतु, उपस्थितानि कल्याणनि प्रतिहतानि सर्वपापानि-सर्वविघ्ना, 'जुत्तो'त्ति युक्त: 'पुष्यो' नक्षत्रविशेष: चन्द्रमसा इहावसरे इति गम्यते, पुष्यनक्षत्रं हि यात्रायां सिद्धिकरं, यदाह- 'अपि द्वादशमे चन्द्रे, पुष्यः सर्वार्थसाधन' इति, मागधेन तदुपन्यस्तं, विजयो मुहूर्त्तस्त्रिंशतो मुहूर्तानां मध्यात्, अयं देशकाल:-एस प्रस्तावो गमनस्येति गम्यते 'वक्के उदाहिए'त्ति वाक्ये उदाहते हृष्टतुष्टा: कर्णधारो-निर्यामक: A कुक्षिधारा-नौपार्श्वनियुक्तका: आवेल्लकवाहकादय: गर्भे भवा: गर्भजा:- नौमध्ये उच्चावचकर्मकारिण: संयात्रानौवाणिजका-भाण्डपतयः एतेषां द्वन्द्व, वावरिसुत्ति का र व्यापृतवन्त: स्वस्वव्यापारेष्विति, ततस्तां नावं पूर्णोत्सङ्गा-विविधभाण्डभृतमध्यां पण्यमध्यां वा मध्यभागनिवेशितमङ्गल्यवस्तुत्वात् पूर्णमुखीं पुण्यमुखीं वा तथैव बन्धनेभ्यो विसर्जयन्ति-मुञ्चन्ति, पवनबलसमाहता-वातसामर्थ्यप्रेरिता: 'ऊसियसियत्ति उच्छ्रितसितपटा, यानपात्रे हि वायुसङ्ग्रहार्थं महान् पट उच्छ्रित: क्रियते, एवं चासावुफ्मीयते विततपक्षेव गरुडयुवति: गङ्गासलिलस्य तीक्ष्णा: ये श्रोतोवेगा-प्रवाहवेगास्तै: सक्षुभ्यन्ती २-प्रेर्यमाणा समुद्रं प्रतीति ऊर्मयो-महाकल्लोला: तरङ्गा-ह्रस्वकल्लोलास्तेषां माला:-समूहा: तत्सहस्राणि 'समतिच्छमाणित्ति समतिक्रामन्ती ओगाढ'त्ति प्रविष्टा २ ।
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy