Book Title: Gaudavaho
Author(s): Vakpatiraj, Narhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 607
________________ 310 Gaüdavaho Appendix II Extract from Rajatarangini ( IV. 126-145) describing the the campaign of King Lalitāditya. राजा श्रीललितादित्यः सार्वभौमस्ततोऽभवत् । प्रादेशकेश्वरस्रष्टुर्विधेर्बुद्धेरगोचरः ॥ १२६॥ प्रतापांशुच्छटाकूटैः पटवाससधर्मभिः । जम्बुद्वीपद्विपेन्द्रस्य येनातन्यत मण्डलम् ॥ १२७॥ नयाञ्जलिषु बद्धेषु राजभिर्विजयोद्यमे । पार्थिवः पृथुविक्रान्तियुधि क्रोधं मुमोच यः ॥ १२८ ॥ विनिःसरज्जनतया भयाद् ग निवामुचन् । द्विषां वसतयो यस्य निशम्यास्कन्ददुन्दुभिम् ।। १२९॥ विलोलतिलकान्तर्यः सनेत्राम्भोभिराननैः। निवापालिदानानि द्विषां नारिकारयत् ॥ १३०॥ क्षितिं प्रदक्षिणयतो रबेरिव महीपतेः।। जिगीषोः प्रायशस्तस्य यात्रास्वेव वयो ययौ॥१३१॥ करं पूर्वदिशो गृह्णन प्रतापानलसंनिधौ । अन्तर्वेद्यां महाराजः स कीयुष्णीषभृद् बभौ ॥१३२॥ कन्यानां यत्र कुब्जत्वं व्यधाद् गाधिपुरे मरुत् । तत्रैव शंसनीयः स पुंसां चक्रे भयस्पृशाम् ॥१३३॥ यशोवर्माद्रिवाहिन्याः क्षणात् कुर्वन् विशोषणम् । नृपतिर्ललितादित्यः प्रलयादित्यतां ययौ ॥१३४॥ मतिमान कन्यकुब्जेन्द्रः प्रत्यभात् कृत्यवेदिनाम् । दीप्तं यल्ललितादित्यं पृष्ठं दत्त्वा न्यषेवत ।। १३५।। तत्सहायास्ततोऽप्यासन निकाममभिमानिनः। कुसुमाकरतोऽप्युच्चैः सुरभिश्चन्दनानिलः ॥१३६ ॥ श्रीयशोवर्मणः संधौ सांधिविग्रहिको न यत् । नयं नियमनालेखे मित्रशर्माऽस्य चक्षमे ॥१३७ ॥ सोऽभूत् संधिर्यशोवर्मललितादित्ययोरिति । लिखितेनादित्यनिर्देशादनहत्वं विदन प्रभोः॥१३८॥ युगलकम् ॥ सुदीर्घविग्रहाशान्तैः सेनानीभिरसूयिताम् । औचित्यापेक्षतां तस्य क्षितिभृद् बह्वमन्यत ॥१३९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638