Book Title: Gaudavaho
Author(s): Vakpatiraj, Narhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 610
________________ 313 Appendix III रावणः- तवैव रुधिरांबुभिः क्षतकठोरकण्ठस्तै रिपुस्तुतिभवो मम प्रशममेतु कोपानलः । सुरद्विपशिरस्स्थलीदलनदष्टमुक्ताफलः स्वसुः परिभवोचितं पुनरसौ विधास्यत्यसिः॥ नाट्यदर्पणे इन्द्रजित् - रक्षोवीरा दृढोरप्रतिफलनदलत्कालदण्डप्रचण्डा दोर्दण्डाकाण्डकण्डूविषमनिकषणत्रासितक्ष्माधरेन्द्राः। याताः कामं न नाम स्मृतिपथमपथप्रस्थितेन्द्रानुसारी स्वर्वासिक्लिष्टदृष्टः कथमहमपि ते विस्मृतो मेघनादः॥ नाट्यदर्पणे रामः-प्रत्याख्यानरुषः कृतं समुचितं यूरेण ते रक्षसा . सोढं तच्च तथा त्वया कुलजनो धत्ते यथोच्चैः शिरः। व्यर्थ संप्रति बिभ्रता धनुरिदं त्वद्व्यापदः साक्षिणा रामेण प्रियजीवितेन तु कृतं प्रेम्णः प्रिये नोचितम् ॥ . नाट्यदर्पणे धूमवातं वितानीकृतमुपरिशिखादोभिरभ्रंलिहायैः बिभ्रद् भ्राजिष्णु रत्नं ततमुरसि तथा चर्म चामूरवं च। भूयस्तेज प्रतानैः विरहमलिनतां क्षालयन्नकभाजो देव्याः सप्ताचिराविर्भवति विफलयन् वाञ्छितान्यन्तकस्य ॥ नाट्यदर्पणे Stray verses quoted from the Rāmābhyudaya :स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लबलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । काम सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्व सहे वैदेही तु कथं भविष्यतु हहा हा देवि ! धीरा भव ॥ ___Quoted by आनन्दवर्धन. यत्त्वनेत्रसमानकान्ति सलिले मग्न तदिन्दीवरं मेधैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी। येऽपि त्वदूगमनानुसारिगतयस्ते राजहंसा गताः त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते॥ From सुभाषितावलि and सूक्तिमुक्तावलि. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638