________________
310
Gaüdavaho
Appendix II Extract from Rajatarangini ( IV. 126-145) describing the the campaign of King Lalitāditya.
राजा श्रीललितादित्यः सार्वभौमस्ततोऽभवत् । प्रादेशकेश्वरस्रष्टुर्विधेर्बुद्धेरगोचरः ॥ १२६॥ प्रतापांशुच्छटाकूटैः पटवाससधर्मभिः । जम्बुद्वीपद्विपेन्द्रस्य येनातन्यत मण्डलम् ॥ १२७॥ नयाञ्जलिषु बद्धेषु राजभिर्विजयोद्यमे । पार्थिवः पृथुविक्रान्तियुधि क्रोधं मुमोच यः ॥ १२८ ॥ विनिःसरज्जनतया भयाद् ग निवामुचन् । द्विषां वसतयो यस्य निशम्यास्कन्ददुन्दुभिम् ।। १२९॥ विलोलतिलकान्तर्यः सनेत्राम्भोभिराननैः। निवापालिदानानि द्विषां नारिकारयत् ॥ १३०॥ क्षितिं प्रदक्षिणयतो रबेरिव महीपतेः।। जिगीषोः प्रायशस्तस्य यात्रास्वेव वयो ययौ॥१३१॥ करं पूर्वदिशो गृह्णन प्रतापानलसंनिधौ । अन्तर्वेद्यां महाराजः स कीयुष्णीषभृद् बभौ ॥१३२॥ कन्यानां यत्र कुब्जत्वं व्यधाद् गाधिपुरे मरुत् । तत्रैव शंसनीयः स पुंसां चक्रे भयस्पृशाम् ॥१३३॥ यशोवर्माद्रिवाहिन्याः क्षणात् कुर्वन् विशोषणम् । नृपतिर्ललितादित्यः प्रलयादित्यतां ययौ ॥१३४॥ मतिमान कन्यकुब्जेन्द्रः प्रत्यभात् कृत्यवेदिनाम् । दीप्तं यल्ललितादित्यं पृष्ठं दत्त्वा न्यषेवत ।। १३५।। तत्सहायास्ततोऽप्यासन निकाममभिमानिनः। कुसुमाकरतोऽप्युच्चैः सुरभिश्चन्दनानिलः ॥१३६ ॥ श्रीयशोवर्मणः संधौ सांधिविग्रहिको न यत् । नयं नियमनालेखे मित्रशर्माऽस्य चक्षमे ॥१३७ ॥ सोऽभूत् संधिर्यशोवर्मललितादित्ययोरिति । लिखितेनादित्यनिर्देशादनहत्वं विदन प्रभोः॥१३८॥
युगलकम् ॥ सुदीर्घविग्रहाशान्तैः सेनानीभिरसूयिताम् । औचित्यापेक्षतां तस्य क्षितिभृद् बह्वमन्यत ॥१३९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org