Book Title: Dwisandhanam Author(s): Dhananjay, Kashinath Pandurang Sharma, Publisher: Nirnanysagar Press View full book textPage 5
________________ काव्यमाला | महाकविश्रीधनंजयविरचितं द्विसंधानम् । श्रीबदरीनाथकृतया टीकया समेतम् । •• प्रथमः सर्गः । कीर्त्या निर्मलयन्दिशो दशरथश्लाघी समृद्धोद्भवः संग्रामप्रकटीकृतार्जुनयशाः शत्रुघ्नवीरादृतः । वल्गजाम्बवता प्रशंसितमहाः प्रौढाङ्गदोद्भासितः श्रीमान्नीलरुचिः शिवं दिशतु वो रामोऽथ कृष्णोऽथ वा ॥ आसीदसीमगुणभूमिरभूमिरंहः सङ्घस्य कृष्णचरणाम्बुजचश्चरीकः । दाधीचजातिगतकौत्सकुले प्रसूतः साहेबराम इति नाम दधद्द्विजायः ॥ अनन्तपादार्चनलब्धसिद्धिरनन्तवाणीपरिनिष्ठबुद्धिः । अनन्तविद्वत्कुलशैलसानुरनन्तरामोऽभवदस्य सूनुः ॥ तस्य कृष्णैकभक्तोऽभूच्छोटीलालाभिधः सुतः । सदासुखमनीरामकनीयान्पुण्यभाजनम् ॥ काव्याध्यापनलब्धशुद्धयशसा रामाभिधाज्ज्यायसा कुद्दालेत्युपनामकेन बदरीनाथेन तत्सूनुना । प्राक्टीकामुपलभ्य चैव सुगमा बोधाय विद्यार्थिनां टीकेयं क्रियते धनंजयकृते काव्ये द्विसंधानके ॥ तत्र श्रीमाच्छ्रेषोक्तिचतुरो धनंजयनामा महाकविः प्रारिप्सितस्य राघवपाण्डवीयकथानकयोः कुत्रचिजतुकाष्ठन्यायेन कुत्रचिदेकवृन्तगतफलद्वयन्यायेन सभङ्गाभङ्गश्लेषप्राधान्येन प्रतिपादकस्य द्विसंधाननामकमहाकाव्यस्य निर्विघ्नपरिसमाप्तिप्रचारादिफलकं शिष्टाचारप्राप्तं तीर्थकृदाशीरूपं मङ्गलमाचरति — श्रियं जगद्बोधविधौ विहायसि व्यदीपि नक्षत्रमिवैकमुद्गतम् । स यस्य वस्तीर्थरथस्य सुव्रतः प्रवर्तको नेमिरनश्वरीं क्रियात् ॥ १ ॥ श्रियमिति ॥ यस्य बोधविधौ कैवल्यज्ञानानुष्ठाने, विहायसि गगने, उद्गतमेकं न - क्षत्रमिव, जगद् व्यदीपि भाति स्म । स तीर्थमागम एव रथः, तस्य नेमिश्चक्रधारा सन्;Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 230