Book Title: Dwisandhanam
Author(s): Dhananjay, Kashinath Pandurang Sharma,
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 6
________________ काव्यमाला । प्रवर्तकः सुव्रतो नाम विशस्तीर्थकरः, अनश्वरी नित्यां मोक्षोपलक्षितां श्रियं वो युष्माकं क्रियात् विधेयात् ॥ भारतपक्षे-नेमिः शिवानन्दनो द्वाविंशस्तीर्थकृद्विशेष्यः । तस्य, शोभनानि निरतिचाराणि व्रतानि यस्येत्यर्थकं सुव्रत इति विशेषणम् । बोधविधौ बोधचन्द्र इति विशेषः । अस्मिन्काव्ये श्लेष एव मुख्योऽलंकारः । तथापि तन्मूलकानि अलंकारान्तराणि तत्र तत्र ज्ञेयानि । तत्रात्रोपमारूपकयोः संकरालंकारः । सर्गेऽस्मिन्वंशस्थं नाम च्छन्दः-'जतौ तु वंशस्थमुदीरितं जरौ' इति लक्षणात् ॥ सती श्रुतस्कन्धवने विहारिणीमनेकशाखागहने सरस्वतीम् । गुरुप्रवाहेण जडानुकम्पिना स्तुवेऽभिनन्ये वनदेवतामिव ॥ २ ॥ सतीमिति ॥ सती पूर्वापरप्रमाणबाधारहिताम्, अनेकशाखाभिः प्राभृतिकादिप्र. न्थविशेषैर्गहने, जडान्हेयोपादेयविवेकविकलाननुकम्पतीत्येवंशीलेन गुरूणां प्रवाहेण, अभि समन्तानन्दनीये, श्रुतस्कन्धो ग्रन्थविशेषः स एव वनं तस्मिन्विहरणशीलाम्, सरस्वती वनदेवतामिव स्तुवे । कीदृशीं वनदेवताम् । सती साङ्गोपाङ्गसंपूर्णलक्षणाम्, डलयोरक्याजलानुकम्पिना गरिष्ठप्रवाहेण, अभिनन्येऽभिवर्धनीये, अनेकाभिवृक्षशाखाभिनिबिडे, श्रुताः विख्याताः स्कन्धाः प्रकाण्डा यत्र तत्र वने विहरणशीलाम् । उपमालंकारः॥ चिरंतने वस्तुनि गच्छति स्पृहां विभाव्यमानोऽभिनवैर्नवप्रियः । रसान्तश्चित्तहरैर्जनोऽन्धसि प्रयोगरम्यैरुपदंशकैरिव ॥ ३ ॥ चिरंतन इति ॥ नवप्रियः नूतनाभिलाषुकः, अभिनवैर्नवीनैः, चित्तहरैश्चेतोरञ्जकैः प्रयोगरम्यैः शब्दरचनाविशेषरमणीयैः रसान्तरैः। शृङ्गारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतशान्ताश्च नव नाट्ये रसाः स्मृताः ॥' इत्युक्तेषु रसेषु एकैकस्य निवृत्तावुत्तरोत्तरं समुत्पनैः । विभाव्यमान आहाद्यमानो जनो लोकः, चिरंतने पुरातने वस्तुनि पदार्थे स्पृहां वाञ्छां गच्छति प्राप्नोति । कैः कस्मिन्निव । प्रयोगरम्यैः प्रकारविशेषोत्कर्षमनोहरैः, अभिनवैतनैः, चित्तहरैमनोहारिभिः, रसान्तरैर्मधुरामललवणकटुकषायतिक्तानां सांकर्येण विलक्षणरसतामापनैरुपदंशकैर्व्यअनैः, अन्धसि भक्त इव ॥ स जातिमार्गो रचना च साकृतिस्तदेव सूत्रं सकलं पुरातनम् । विवर्तिता केवलमक्षरैः कृतिर्न कञ्चुकश्रीरिव वर्ण्यमृच्छति ॥ ४ ॥ स इति ॥ यद्यपि स एव बहुत्रोपलब्ध एव जातिमार्गो जगत्यादिच्छन्दःपद्धतिः, चकारोऽवधारणार्थः, सैव रचना पदन्यासः, सैव आकृतिर्गद्यपद्यबन्धादिलक्षण: संस्थानविशेषः, तदेव पुरातनं पूर्वाचार्यप्रणीतं सकलं समस्तं सूत्रं सूत्र्यन्ते रच्यन्ते गुम्फ्यन्ते कथारूपतया अर्था येन तत्पुरुषाश्रितचरित्रम् । अस्तीति शेषः । तथापि केवलमक्षरैर्वर्णैः कृत्वा विवर्तिता परावृत्ता सती कृतिः काव्यं कि वर्षे श्लाध्यतां न ऋच्छति गच्छति । अपि तु गच्छत्येवेति काकुः । केव । कञ्चुकश्रीरिव । यथा कञ्चुकश्रीः, अक्षं द्रव्यं रान्ति

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 230