Book Title: Dwisandhanam Author(s): Dhananjay, Kashinath Pandurang Sharma, Publisher: Nirnanysagar Press View full book textPage 9
________________ १ सर्गः ]. विसारिभिः स्नानकषायभूषितैर्विभीषितेव प्रियगात्रमङ्गना । शुचौ समालिङ्गति यत्र सारखे हदे तरन्ती कलहंससंकुले ॥ १२ ॥ विसारीति ॥ यत्र नगर्यो शुचौ ग्रीष्मे, कलहंससंकुले, सारवे सरयूभवे, हृदे, तरन्ती अङ्गना, स्नानकषायभूषितैः स्नानार्थ कषायैः कुङ्कुमादिभिर्भूषितैः, विसारिभिर्मत्स्यैर्बिभीषिता भयं नीतेव सती प्रियगात्रं समालिङ्गति ॥ भारतीयपक्षे – सारखे सस्वने । उत्प्रेक्षा ॥ अरान्घटीयन्त्रगतान्गतश्रमः पयः कणैरग्रपदेन पीडयन् । द्विसंधानम् । स यत्र कच्छी सतनुः सुरालयं प्रयुज्य निःश्रेणिमिवारुरुक्षति ॥ १३॥ अरानिति || यत्र नगर्यो पयः कणैरुदबिन्दुभिः गतश्रमो विगतखेदः स कच्छी मालाकारः अग्रपदेन अग्रचरणेन घटीयन्त्रगताञ्जलपात्राश्रितान्, अरान्काष्ठकीलकान्, पीडयन् कदर्थयन् सन् निःश्रेणि, प्रयुज्य संबध्य, सतनुः सशरीरः सुरालयं स्वर्गम्, आरुरुक्षतीव आरोढुमिच्छतीव । उत्प्रेक्षा ॥ उदर्कसंक्लेशभरं स्वयं वहत्परस्य संतापहरं फलप्रदम् । युतं विजात्यापि विलङ्घय सज्जनं विभाति यत्रोपवनं समन्ततः ॥ १४ ॥ उदर्केति ॥ यत्र, समन्ततः सामस्त्येन, उदर्कादूर्ध्वस्थितार्कात्संक्लेशभरं संतापभारम्, स्वयं वहत् परस्य जनस्य संतापहरं फलप्रदम्, सज्जनं विलङ्घय अतिक्रम्य वीनां जात्यायुतम् उपवनं विभाति । अर्थवशाद्विभक्तिविपरिणामेन — उदर्के उत्तरफले संक्केशभरं स्वयं वहन् परस्य संतापहारकः फलप्रदः, 'मातृपक्षो भवेज्जाति: पितृपक्षः कुलं भवेत्' इत्युक्तेर्विशिष्टया लाञ्छनरहितया जात्या मातृपक्षेण युत उपवनमतिक्रम्य सज्जनोऽपि विभाति । सज्जनातिक्रामी विशिष्टजातियुतः कथमिति विरोधः । परिहारस्तूक्तः । विरोधालंकारः ॥ दशां दधानाः खलु गन्धधारिणीं महाद्रुमस्कन्धनिबद्ध कंधराः । स्वबन्धवैरोद्धयेव सिन्धुराः शिरांसि यस्यां धुनतेऽरुणेक्षणाः ॥ १९ ॥ दशामिति ॥ यस्यां खलु निश्चयेन गन्धधारिणीसंज्ञितां दशामवस्थां दधानाः, महाद्रुमाणां स्कन्धेषु निबद्धा यन्त्रिता कंधरा ग्रीवा येषां ते, अरुणेक्षणा लोहितलोचना:, सिन्धुरा हस्तिनः स्वबन्धेन वैरमुद्घाटयितुकामा इव शिरांसि धुनते । उक्तं च—— - 'संजाततिलका पूर्वा द्वितीयार्धकपोलिका । तृतीयार्धनिबद्धा तु चतुर्थी गन्धधारिणी ॥ पञ्चमी कोधिनी ज्ञेया षष्ठी चैव प्रवर्तिका । संप्रभिन्नकपोलाथ सप्तमी सार्वकालिका ॥ इति । उत्प्रेक्षा ।। कुशासनोदीरितचेतसश्चला मनोजवा मेघपथेऽतिवर्तिनः । प्रसह्य नीता गुरुभिर्महापथं नरोऽतिदाम्यन्त्यपि यत्र वाजिनः ॥ १६ ॥ कुशेति ॥ यत्र कुशासनैः कुशिक्षादायिभिरुदीरितमुदीर्णमुद्धलितं चेतो हृदयं येषांPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 230