Book Title: Dwisandhanam Author(s): Dhananjay, Kashinath Pandurang Sharma, Publisher: Nirnanysagar Press View full book textPage 3
________________ द्विसंधान महाकाव्यस्य भूमिका । - - अयं द्विसंधान महाकाव्यस्य राघवपाण्डवीयापरनामकस्य कर्ता धनंजय महाकविः कदा कतमं भूमिमण्डलं मण्डयामासेति न निश्चितम् . परंतु ८८४ ख्रिस्ताब्दपर्यन्तं कश्मीरान्पालयितुरवन्तिवर्मणः समकालीनयोर्ध्वन्यालोकनिर्मायकानन्दवर्धन- हरचरितमहाकाव्यरचयितरत्नाकरयोः स्तावकस्य, ९५९ ख्रिस्ताब्दरचितयशस्तिलक चम्पूनिर्मातृ जैनसोमदेवेन स्तुतस्य, बालरामानाटकादिनिर्मातृराजशेखरस्य नाम्ना जल्हणादिसंगृहीतसूक्तिमुक्तावल्यादिषु लिखितेषु प्राचीन कविवर्णना श्लोकेषु (सूक्तिमुक्तावलि - सुभाषित हारावल्योः ) 'द्विसंधाने निपुणतां स तां चक्रे धनंजयः । यया जातं फलं तस्य सतां चक्रे धनं जयः ॥ ' इत्युपलभ्यमानत्वेन 'राजशेखरकवेः प्राचीनो धनंजयकविरासीत्' इति, प्रकृतकाव्ये जैनसमयमात्र प्रसिद्ध कथानां निबद्धत्वात् 'जैनः सः' इति च प्रतीयते. इति विज्ञापयतः 'प्रमाणमकलङ्कस्य पूज्यपादस्य लक्षणम् । द्विसंधानकवेः काव्यं रत्नत्रयमकण्टकम् ॥ कवेर्धनंजयस्येयं सत्कवीनां शिरोमणेः । प्रमाणं नाममालेति श्लोकानां च शतद्वयम् ॥' इति धनंजय निघण्टुरूप नाममालाया दर्शनेन अकलङ्कप्रमाण- पूज्यपादलक्षण- नाममाला अप्यनेन धनंजयेन निर्मिता इति प्रतीयते. अकलङ्क पूज्यपादयोर्ग्रन्थकर्तृत्वे तु धनंजयेन द्विसंधानकाव्यं नाममाला चेति ग्रन्थद्वयं निर्मितमिति ज्ञेयम्. सभङ्गाभङ्गश्लेषप्रधानतया कथाद्वयवर्णकस्य तस्य चास्य महाकाव्यस्य टीकापि विनयचन्द्रान्तेवासिनेमिचन्द्रेण महती कृतासीत् तस्याश्वातीव विस्तृतत्वात्ततः सारमुद्धृत्य श्रीबदरीनाथेनेव सकलसुमनोभूषितेन दाधीचजयपुर संस्कृतपाठशालाध्यापकविद्वदरबदरीनाथेनेयं सुधारूपा प्रकाशिता. इमे च १८९५ ख्रिस्ताब्दे इदं जगदसारं मत्वा परलोकं प्रस्थितवन्तः. तस्य चास्य सटीकस्य महाकाव्यस्य शोधने यदावयोः स्खलनं स्यात्तत्परमदयार्द्रमनस्कः . शोधनीयं क्षन्तव्यं च यतः गच्छतः स्खलनं कापि भवत्येव प्रमादतः । इसन्ति दुर्जनास्तत्र समादधति सज्जनाः ॥ पण्डित शिवदत्त - काशीनाथौ.Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 230