Book Title: Dhvanyaloak Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri Publisher: Pandurang Jawaji View full book textPage 8
________________ मदाचार्यामिनवगुप्तपादानां कश्चन पूर्ववंशोद्भव इत्यपि तन्मतनिराकरणानन्तरं 'इत्यलं निजपूर्वजसगोत्रैः साकं विवादेन' (१२३ पृष्ठे), चन्द्रिकाकारस्तु पठित-इत्यलं पूर्ववंश्यैः सह विवादेन' (१८५ पृष्ठे) इत्यादिभिर्लोचनस्थैर्वाक्यैः प्रतीयते. लोचनं तु ध्वन्यालोकोझ्योतत्रयस्यैव समुपलभ्यते, चतुर्थोझ्योतस्य तु मूलमात्रमेव. __ अस्मामिस्तु सलोचनस्य ध्वन्यालोकस्य पुस्तकत्रयं संकलितम्. तत्र कश्मीरमहाराजाश्रितज्योतिर्विदुपाह्वविद्वद्वरश्रीदयारामशर्मणां पुस्तकस्य प्रतिरूपकं (१९३०) मिते विक्रमाब्दे कश्मीरानधिवसद्भिरस्मामिर्गृहीतं प्रायः शुद्धं क-संज्ञकम्. अपरं विद्वन्मूर्धन्यभाण्डारकरोपाह्वश्रीरामकृष्णशर्मभिः पुण्यपत्तनस्थराजकीयपुस्तकालयस्थं पुस्तकं प्रहितमासीत्पूर्वतरे वर्षे. तदपि कस्यचित्काश्मीरिकपुस्तकस्य प्रतिरूपकं ख-संज्ञकम्. तृतीयं मैसूरनगरस्थमरिमल्लप्पास्कूलसंस्कृताध्यापकैः आ० अनन्ताचार्यपण्डितैः कस्यचन शतद्वयवर्षप्राचीनस्य तालपत्रपुस्तकस्य प्रतिरूपकं तद्देशाक्षरसमुल्लसितं प्रहितम्. तत्तु ग-संज्ञकम्. तत्पठनं तु जयपुरस्थजैनपाठशालाध्यापकद्रविडकाशिनाथशा'त्रिणां साहाय्येन विहितम्. इत्थं पुस्तकत्रयाधारेण कृतेऽपि मुद्रणे ग्रन्थस्यातिकाठिन्यात्पुस्तकानामनतिशुद्धलान्मतिमान्द्याचोर्वरितानवद्यान्विद्वांसः खयमपोहन्तु, भवन्तु च सानुकम्पा असाखिति भद्रम्.Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 258