Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 16
________________ १ उद्योतः ] ध्वन्यालोकः । प्रकारस्य काव्यत्वहानेः । सहृदयहृदयाह्नादिशब्दार्थमयत्वमेव काव्यलक्षणम् । न चोक्तप्रस्थानांतिरेकिणो मार्गस्य तत्संभवति । न च तत्समयान्तःपातिनः सहृदयान्कांश्चित्परिकल्पिततत्प्रसिद्ध्या ध्वनौ काव्यव्यपदेशः प्रवर्तितोऽपि सकल विद्वन्मनोग्राहितामैवलम्बते । नीयः काव्यस्य कश्चित् । कवनीयं काव्यम् । तस्य भावः काव्यत्वम् । न च नृत्तगीतादि कवनीयमित्युच्यते । प्रसिद्धेति । प्रसिद्धं प्रस्थानं शब्दार्थौ तद्गुणालंकाराश्चेति । प्रतिष्ठन्ते परम्परया विहरन्ति येन मार्गेण तत्प्रस्थानम् । काव्यप्रकारस्येति । काव्यप्रकारत्वेन तव स मार्गोऽभिप्रेतः । ' काव्यस्यात्मा' इत्युक्तत्वात् । ननु कस्मात्तत्काव्यं न भवतीत्याह- सहृदयेति । मार्गस्येति । नृत्तगीताद्यक्षि निकोचनादिप्राय-स्येत्यर्थः । तदिति । सहृदयेत्यादिकाव्यलक्षणमित्यर्थः । ननु ये तादृशमपूर्वं काव्यरूपतया जानन्ति त एव सहृदयाः । तदभिमतत्वं च नाम काव्यलक्षणमुक्तप्रस्थानाति रेकिण एव भविष्यतीत्याशङ्कयाह – न चेति । यथा हि खङ्गलक्षणं करोमीत्युक्त्वा आतानवितानात्मा प्रात्रियमाणः सकलदेहाच्छादकः सुकुमारश्चित्रतन्तुविचितः संवर्त -- नविवर्तनसहिष्णुरच्छेदकः सुच्छेद्य उत्कृष्टः खङ्ग इति ब्रुवाणः परैः पटः खल्वेवंविधो भवति न खड्ग इत्युक्ततया पर्यनुयुज्यमान एवं ब्रूयात् — ईदृश एव खड्गो ममाभिमत इति तादृगेवैतत् । प्रसिद्धं हि लक्ष्यं भवति ने 'केल्पितमिति भावः । तदाह-सक १२ 93 लविद्वदिति । विद्वांसोऽपि हि तत्समयज्ञा एवं भविष्यन्तीति शङ्कां सकलशब्देन निराकरोति । एवं हि कृतेऽपि न किंचित्कृतम् । तस्मादुन्मत्तता परं प्रकटितेति भावः । यस्त्वत्राभिप्रायं व्याचष्टे – जीवितभूतो ध्वनिस्तावत्त्वाभिमतः । जीवितं च नाम प्रसिद्धप्रस्थानातिरिक्तम् । अलंकारैरनुक्तत्वात्तच्च न काव्यमिति लोके प्रसिद्धमिति । तस्येदं सर्वं स्ववचनविरुद्धम् । यदि हि तत्काव्यस्यानुप्राणकं तेनाङ्गीकृतं पूर्वपक्षवादिना तश्चिरंतनैरनुक्तमिति प्रत्युत लक्षणानर्हमेव भवति । तस्मात्प्राक्तन एवात्राभिप्रायः । ननु भवत्वसौ चारुत्वहेतुः शब्दार्थगुणालंकारान्तर्भूतश्च तथापि ध्वनिरित्यमुया भाषया जीवितमित्यसौ न केनचिदुक्त इत्यभिप्रायमाशङ्क्य तृतीयमभाववादमुपन्यस्य १. 'अतिक्रमिणो' ग. २. 'परिकल्प्य तत्प्र-' ग. ३. 'एव लम्बते' ग. १. 'काव्यस्य च' क-ख. २. 'नृत्तादि' ग. ३. 'प्रसिद्ध्येति' क. ४. 'नृत्तगीतादिकामिनीकोपादिप्राय' ग. ५. 'तमिति' ग. ६. 'हि' क ख - पुस्तकयोर्नास्ति. ७. 'प्रापयमाणः ' ग. ८. 'तन्तुचितः ' ग. ९. 'खच्छ' ख-ग. १०. 'न' ग-पुस्तके नास्ति. ११. 'विकल्पितं' क. १२. 'अपि' ख- पुस्तके नास्ति. १३. 'हि' ग-पुस्तके नास्ति. १४. 'एव' क-ख- पुस्तकयोर्नास्ति. १५. 'किंचित्कृतं स्यात् ' क ' कश्चित्कृतः स्यात् ' ग. १६. ‘तथाभिमतः’ क-ख. १७. 'लक्षणा' ग. १८. 'अत्र' ग-पुस्तके नास्ति

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 258