Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 10
________________ काव्यमाला । श्रीमदानन्दवर्धनाचार्यप्रणीतो ध्वन्यालोकः। श्रीमदाचार्याभिनवगुप्तविरचितया लोचनाख्यया व्याख्ययानुगतः । प्रथम उड्योतः। खेच्छाकेसरिणः खच्छखच्छायायोसितेन्दवः । त्रायन्तां वो मधुरिपोः प्रपन्नार्तिच्छिदो नखाः ।। अपूर्व यद्वस्तु प्रथयति विना कारणकलां जगद्धावप्रख्यं निजरसभरात्सारयति च । क्रमात्प्रख्योपाख्याप्रसरसुभगं भासयति त त्सरखत्यास्तत्त्वं कविसहृदयाख्यं विजयतात् ॥ भहेन्दुराजचरणाब्जकृताधिवासहृद्यश्रुतोऽभिनवगुप्तपदाभिधोऽहम् । यत्किंचिदप्यनुरणन्स्फुटयामि काव्यालोकं सुलोचननियोजनया जनस्य ॥ खयमविच्छिन्नपरमेश्वरनमस्कारसंपत्तिचरितार्थोऽपि व्याख्यातृश्रोतृणामविघ्नेनाभीष्टव्याख्याश्रवणलक्षणफलसंपत्तये समुचिताशीःप्रकटनद्वारेण परमेश्वरसांमुख्यं करोति वृत्तिकारः-खेच्छेति । मधुरिपोर्नखा वो युष्मान्व्याख्यातृश्रोतस्त्रायन्ताम् । तेषामेवं संबोधनयोग्यत्वात् । संबोधनसारो हि युष्मदर्थः । त्राणं चाभीष्टलाभं प्रति साहा. यकाचरणम् । तच्च तत्प्रतिद्वन्द्विविघ्नापसारणादिना भवतीति । इयदत्र त्राणं विवक्षितम् । नित्योद्योगिनश्च भगवतः संमोहाध्यवसायप्रतियोगित्वेनोत्साहप्रतीतेीररसो १. 'विजितेन्दवः' ग. २. 'वः प्रपन्नार्तिच्छिदो मधुरिपोर्नखाः' ग. १. क-पुस्तके टीकाप्रारम्भ "उपास्महे खानुभवैकवेयं खच्छन्दमानन्दसमुद्रमी. शम् । व्याप्तं जगच्छक्तितरत्तरजैरदृष्टपारं परमेष्ठिनापि ॥' इह हि कश्चिद्विपश्चिजनमनोरञ्जनाय निजान्तेवासिवासनासंजननाय च दुहृदयोद्वेजितसहृदयसमुदायसमुत्ते. जितः श्रीमदभिनवगुप्तपादोपदिष्टं विष्टपरम्पराप्राप्तमभीष्टदेवतासंमुखीकरणरूपं ध्वन्यालोचने मङ्गलं विवृणोति" इत्यधिकमस्ति. २. 'अनुरणत्' क-ख. ३. 'खलोचन' ख. ४. 'अपि' ग-पुस्तके नास्ति. ५. 'अविच्छिन्नाभीष्ट' ग. ६. 'खेच्छेत्यादिना' ग. ७. 'वो' ग-पुस्तके नास्ति. ८. 'एवात्र' ग. ९. 'फललामं' ग. १०. 'साहाय्यका-' क-ख. ११. 'प्रति' ग-पुस्तके नास्ति.

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 258