Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 11
________________ २ काव्यमाला | 'काव्यस्यात्मा ध्वनिरिति बुधैर्यः समाम्नातपूर्वस्तस्याभावं जगदुरपरे भाक्तमाहुस्तमन्ये । ध्वन्यते । नखानां प्रहरणत्वे, प्रहरणेन च रक्षणे कर्तव्ये नखानामव्यतिरिक्तत्वेन करणत्वात्सातिशयशक्तिता कर्तृत्वेन सूचिता । ध्वनितश्च परमेश्वरत्य व्यतिरिक्त केरणापेक्षाविरहः । मधुरिपोरित्यनेन तस्य सदैव जगत्रासापसारणोद्यम उक्तः । कीदृशस्य मधुरिपोः । खेच्छया केसरिणः । न तु कर्मपारतन्त्र्येण, नाप्यन्यदीयेच्छया । अपि तु विशिष्टदानवर्हेननोचितात्तथाविधेच्छापरिग्रहौचित्यादेव स्वीकृतसिंहरूपस्येत्यर्थः । कीदृशा नखाः । प्रपन्नानामार्तिं ये छिन्दन्ति । नखानां छेदकत्वमुचितम् । आर्तेः पुनश्छेद्यत्वं नखान्प्रत्यसंभावनीयमपि तदीयानां नखानां खेच्छानिर्माणौचित्यात्संभाव्यत एवेति यावत् । अथवा त्रिजगत्कण्टको हिरण्यकशिपुर्वि र्श्वस्योत्क्लेशक इति स एव वस्तुतः प्रपन्नानां भगवदेकशरणस्थितीनां जनानामार्तिकारित्वान्मूर्तेवार्तिस्तं विनाशयद्भिरार्तिरेवोच्छिन्ना भवतीति परमेश्वरस्य तस्यामप्यवस्थायां परमकारुणिकत्वमुक्तम् । किं च ते किंगुणाः । खच्छेन खच्छतागुणेन नैर्मल्येन । स्वच्छ मृदुप्रभृतयो हि मुख्यतया भाववृत्तय एव । खच्छायया च वैंकहृद्यरूपया कृत्यायासितः खेदित इन्दुर्यैः । अत्रार्थशक्त्यनुरणनमूलेन ध्वनिना बालचन्द्रत्वं ध्वन्यते । औयासनेन तत्संनिधौ चन्द्रस्य - च्छायत्वप्रतीतिरहृद्यत्वप्रतीतिश्च ध्वन्यते । आयासकारित्वं च नखानां सुप्रसिद्धम् । नरहरिनखानां तेच लोकोत्तरेण रूपेण प्रतिपादितम् । किं च तदीयां स्वच्छतां कुटिलिमानं चावलोक्य बालचन्द्रः खात्मनि खेदमनुभवति । तुल्येऽपि खच्छकुटिलाकारयोगेऽमी प्रपन्नार्तिनिवारणकुशलाः, न त्वहमिति व्यतिरेकालंकारध्वनिः । किं चाह पूर्वमेक एवासाधारणवैशद्यहृद्या कारयोगात्समस्तजनाभिलषणीयताभाजनमभवम्, अय पुनरेवंविधा नैखा दश बालचन्द्राकाराः संतापार्तिच्छेदकुशलाश्चेति ताने लोको बालेन्दुबहुमाने न पश्यति, न तु मामित्याकलयन्वालेन्दुरविरत मायासमनुभवतीत्युत्प्रेक्षापह्नुतिध्वनिरपि । एवं वस्त्वलंकाररेंसमेदेन त्रिधा ध्वनिरत्र श्लोकेऽस्मद्गुरुभिर्व्याख्यातः ॥ अथ प्राधान्येनाभिधेयखरूपमभिदधदप्रधानतया प्रयोजनप्रयोजनं तत्संबन्धं प्रयोजनं च सामर्थ्यात्प्रकटयन्नादिवाक्यमाह - काव्यस्यात्मेति । काव्यात्मशब्दसंनिधानाद्बुध १. ‘शक्तता' ग. २. 'कारणापेक्षा' ख. ३. 'खेच्छाकेसरिणः' ग. ४. 'हननोचिततथाविधेच्छापरिग्रहादेव' ग. ५. 'संभावित' क ख ६. 'विश्वक्लेशकरण एवेति' ग. ७. ‘तदेक' ख. ८. 'अपि ' ग-पुस्तके नास्ति. ९. 'परम' क ख - पुस्तकयोर्नास्ति. १०. 'चक्र' ख. ११. 'आयासेन' क-ख. १२. ‘तच' क-ख-पुस्तकयोर्नास्ति. १३. ‘नखा' क-ख-पुस्तकयोर्नास्ति. १४. ' एवं ' ग. १५. ' इत्युत्प्रेक्ष्यते इत्युत्प्रेक्षापहुति' क- ख. १६. 'रस' ग-पुस्तके नास्ति. १७. 'प्रयोजन' ग-पुस्तके नास्ति. १८. ' तत्संबन्धिप्रयोजनं' ग.

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 258