Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text ________________
१ उध्योतः]
ध्वन्यालोकः। ... केचिद्वाचां स्थितमविषये तत्वमृचुस्तदीयं
तेने ब्रूमः सहृदयमनःप्रीतये तत्स्वरूपम् ॥१॥ बुधैः काव्यतत्त्वविद्भिः काव्यस्यात्मा ध्वनिरिति संज्ञितः परम्परया यः समानातः समाख्यातः, तस्य सहृदयजनमनःप्रकाशमानस्याप्यमाव
शब्दोऽत्र काव्यात्मावबोधकनिमित्तक इत्यभिप्रायेण विवृणोति-काव्यतत्त्वविद्भिरिति । आत्मशब्दस्य तत्त्वशब्देनार्थ विवृण्वानः सारत्वमपरशब्दवैलक्षण्यकारित्वं च दर्शयति । इतिशब्दः खरूपपरत्वं ध्वनिशब्दस्याचष्टे । तदर्थस्य विवादास्पदीभूततया निश्चयाभावेऽर्थतत्त्वायोगात् । एतद्विवृणोति-संहित इति । वस्तुतस्तु न सत्संज्ञामात्रेणोकम् । अपि वस्त्येव ध्वनिशब्दवाच्यं प्रत्युत समस्तसारभूतम् । नान्यथा बुधास्तादृशमामनेयुरित्यभिप्रायेण विवृणोति-तस्य सहृदयेत्यादिना । एवं तु युक्ततरम् । इतिशब्दो भिन्नक्रमो वाक्यार्थपरामर्शकः । ध्वनिलक्षणोऽर्थः काव्यस्यात्मेति यः समानातः । शब्दपरामर्शकत्वे हि ध्वनिसंज्ञितोऽर्थः इति कासंगतिः । एवं हि ध्वनिशब्दः काव्यस्यात्मेत्युक्तं भवेत् । गवित्ययमाहेति यथा । न च विप्रतिपत्तिस्थानमसदेव । प्रत्युत सत्येव धर्मिणि धर्ममात्रकृता विप्रतिपत्तिः । इत्यलमप्रस्तुतेन भूयसा सहृदयजनोद्वेजनेन । बुधस्यैकस्य प्रामादिकमपि तथाभिधानं स्यात्, न तु भूयसां तद्युक्तम् । तेन बुधैरिति बहुवचनम् । एतदेव व्याचष्टे-परम्परयेति । अविच्छिन्नेन प्रवाहेण तैरेतदुक्तम् । विनापि विशिष्टपुस्तकेषु विवेचनादित्यमिप्रायः । न च बुधा भूयांसोऽनादरणीयं वस्वादरेणोपदिशेयुः । एतत्त्वादरेणोपदिष्टम् । तदाह-सम्यग्य भानातपूर्व इति । पूर्वग्रहणेनेदंप्रथमता नात्र संभाव्यत इत्याह । व्याचष्टे च-समाख्यातः सम्यगासमन्ताख्यातः प्रकटित इत्यनेन । तस्येति । यस्याधिगमाय प्रत्युत यतनीयं का तत्रासंभवना । अतः किं कुर्मः । अपारं मौर्यमभाववादिनामिति भावः। न चास्मामिरभाववादिनां विकल्पाः श्रुताः । किं तु संभाव्य दूषयिष्यन्ते । अतः परोक्षवम् । न च भविष्यद्वस्तु दूषयितुं शक्यम् । अनुत्पन्नवादेव । तदपि बुद्ध्यारोपितं दूंष्यत इति
१. 'अविषयं' ग. २. 'येन' ग.
१. 'बोधनिमित्त इत्यमि' ग. २. 'तत्तदर्थस्य' ग. ३. 'निश्चयायोगात्' ग. ४. 'बस्यैव' ख. 'वन्यच्च' ग. ५. 'आमनेयुः कथयेरन्' क-ख. 'खतादृशमामिनेयुरित्यभिप्रायेण' ग. ६. 'युक्तत्वम्' ग. ७. ध्वनिलक्षणार्थकः' ग. ८. 'पदार्थकत्वे' ग. ९. 'संज्ञको' ग. १०. 'हि' क-ख-पुस्तकयो स्ति. ११. 'तदेव त्याचष्टे' ग. १२. 'कैः' ग. १३. 'पुस्तकविनिवेशनात्' ग. १४. 'सम्यगाम्नातपूर्वः' ग. १५. 'प्रथमान्ता' ख. १६. 'व्याचष्टे च सम्यगानातः प्रकटीकृतः' ग. १७. 'तत्राभावसंभावना' ग. १८. 'कृताः' क-ख. १९. 'दूषयिष्यते' ग.
Loading... Page Navigation 1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 258