Book Title: Dharmratna Karanda Tika Part 01 Author(s): Vardhamansuri Publisher: Shravak Hiralal Hansraj View full book textPage 5
________________ धर्मः | प्रदर्शक, सर्वे च तेऽस्तिधर्मश्रुतधर्मचारित्रधर्मग्रामधर्मादयो धर्माश्च सर्वधर्माः, तेषां प्रदर्शकः प्रकाको शकः सर्वधर्मप्रदर्शकस्तं, भूयोऽपि किंभूतं ? सर्वविद्यालतामूलं, सर्वाश्च ता विद्याश्च शब्दविद्याप्रभृ" तयः प्राप्त्यादयश्च सर्वविद्यास्ता एव वल्लयः सर्वविद्यालतास्तासां मूलं कारणं सर्वविद्यालतामूलं. तं श्रीनाजिनंदनं नौमीति श्लोकार्थः. तथा सर्वकर्मविनिर्मुक्तमित्यत्र श्लोके वंदे इति क्रिया, कं वं. दे? वीरं, किंविशिष्टं ? जिनेश्वरं जिनाः केवलमनःपर्यायावधिशानिनश्चतुर्दशनवपूर्वविदश्च, तेषामीश्वरो जिनेश्वरस्तं. पुनरपि किंविशिष्टं ? सर्वकर्मविनिर्मुक्तं. सर्वकर्माणि ज्ञानावरणादीनि तेन्यो विशेषेण बंधोदयोदीरणापेदया नितरां सत्तापेदया मुक्तः सर्वकर्मविनिर्मुक्तस्तं. पुनरपि किंविशिष्टं ? सर्वलोकैकनास्करं सर्वश्चासौ लोकश्च सर्वलोकस्तस्य प्रकाशकारित्वादेकोऽदितीयो नास्कर . व जास्करस्तं. जूयोऽपि किंविशिष्टं ? सर्वामरनरैवैद्य सकलसुरनराणां स्तुत्यमिति श्लोकार्थः. तथा न्यानप्यजितादीन महाविदेहजादींश्च नमस्यामि नमस्करोमि श्रीमतो लक्ष्मीवतस्तीर्थनायकांस्तीर्था धिपतीन् सिखांश्चेत्यादौ चकाराः समुच्चयार्थाः, ततश्च सिघांश्च सकलकर्मदयेण निष्टितार्थान, सू. पेश्वाचार्याश्च वाचकांश्चोपाध्यायांश्च मुनीन् साधून तथा ते नैव प्रकारेण नमस्यामीति श्लोकार्थः / P.P.AC.Gunratnasuri M.S. . Jun Gun Aaradhak TrustPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 404