Book Title: Dharmakalpadruma Mahakavyam
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 6
________________ धर्मभूपतिः धर्मः शर्मप्रदो लोके, धर्मो दुष्कर्मघातकः । धर्मो माता पिता स्वामी, धम्र्म्मो जयति सर्वदा ॥ त्रिविष्टपमयी भूमिः, पुरं श्रीजैनशासनम् । विनयक्षान्तिसद्वृत्त-पवित्रजनपूरितम् ॥ ज्ञानपीठं दृढस्थानं, तद्व्याख्या वेदिका वरा । सिंहासनं विचारः स्यात्, सम्यक्त्वं छत्रमुत्तमम् ॥ पट्टदेवी मनःशुद्धिः, कुमारः सुकृतोदयः । विवेकश्रीर्महामात्यः, सिद्धान्तः सन्धिकारकः ॥ सङ्घः सैन्यं भवेद् यस्य, सोऽयं श्रीधर्म्मभूपतिः । संसेव्यतां प्रतिदिनं दत्ते रत्नत्रयीं यथा ॥ अस्य श्रीधर्म्मभूपस्य, यो हि नाज्ञां विलङ्घयेत् । सोऽवाप्नोति परं सौख्यं, विषमेऽपि कलौ युगे ॥ [ धर्मकल्पद्रुमः/पल्लव/१-श्लोक ९/१४]

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 405