________________
धर्मभूपतिः
धर्मः शर्मप्रदो लोके, धर्मो दुष्कर्मघातकः । धर्मो माता पिता स्वामी, धम्र्म्मो जयति सर्वदा ॥
त्रिविष्टपमयी भूमिः, पुरं श्रीजैनशासनम् । विनयक्षान्तिसद्वृत्त-पवित्रजनपूरितम् ॥
ज्ञानपीठं दृढस्थानं, तद्व्याख्या वेदिका वरा । सिंहासनं विचारः स्यात्, सम्यक्त्वं छत्रमुत्तमम् ॥
पट्टदेवी मनःशुद्धिः, कुमारः सुकृतोदयः । विवेकश्रीर्महामात्यः, सिद्धान्तः सन्धिकारकः ॥
सङ्घः सैन्यं भवेद् यस्य, सोऽयं श्रीधर्म्मभूपतिः । संसेव्यतां प्रतिदिनं दत्ते रत्नत्रयीं यथा ॥
अस्य श्रीधर्म्मभूपस्य, यो हि नाज्ञां विलङ्घयेत् । सोऽवाप्नोति परं सौख्यं, विषमेऽपि कलौ युगे ॥ [ धर्मकल्पद्रुमः/पल्लव/१-श्लोक ९/१४]