Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 17
________________ तुल्लेवि तेण दोसे पक्खविसेसेण जा विसेसुत्ति। सा णिस्सियत्ति सु-तुत्तिपणं तं विति मज्झत्था॥४॥ .तुल्लेवित्ति । तेन-मध्यस्थस्य कुलादिपक्षपाताभावेन तुल्येऽप्युसूत्रभाषणादिके दोषे सति पक्षविशेषेण या विशेषोक्तिः - 'खपक्षपतितस्य यथाछन्दस्यापरमार्गाश्रयणाभावान्न तथाविधदोषः, परपक्षपतितस्य तून्मार्गाश्रयणानियमेनानन्तसंसारित्वम्' इति,सा विशेषोक्तिर्निश्रिता पक्षपातगभ॑तिः तां सूत्रोत्तीर्णाम गमबाधितां ब्रुषते मध्यस्थाः। आगमे ह्यविशेषेणैवान्यथावादिनासन्यथाकारिणां च महादोषः प्रदर्शितस्तत्कोऽयं विशेषो यत्परपक्षपतितस्यैवोत्स्वभाषिणोऽनन्तसंसारित्वनियमो न तु स्वपक्षपतितस्य यथाछन्दादेरिति ॥४॥ । नन्वस्त्ययं विशेषो यत्परपरागतस्योत्सूत्रभाषिणो 'वयमेव जैना अन्ये तु जैनाभासाः' इत्येवं तीर्थोच्छेडाभिप्रायेण प्रवर्तमानस्य सन्मार्गनाशकत्वान्नियमेनान्तसंसारित्वम् , स्वपक्षगतस्य तु व्यवहारतो मार्ग. पतितस्य नायमभिप्रायः संभवति, तत्कारणस्य जैनप्रवचनप्रतिपशभूतापरमार्मस्याङ्गीकारस्याभावाद् इत्यत आहतित्थुच्छेओ व्व मओ सु-तुच्छेओवि हंदि उम्मग्गो। संसारो अ अणंतो भयणिजो तत्थ भाववसा ॥५॥ तित्थुच्छेओत्ति । तीर्थोच्छेद इव सूत्रोच्छेदोऽपि 'हंदि' इत्युपदर्शने उन्मार्ग एव मतः। तथा चोन्मार्गपतितानामुत्सूत्रभाषणं यदि तीर्थोच्छेदाभिप्रायेणैवेति भवतो मतं तदोत्सूत्राचरणमरूपणप्रवणानां व्यवहारतो मार्गपतितानां यथाछन्दादीनामुत्सूत्रभाषणमपि सूत्रोच्छेदाभिप्रायेणैव स्याद्, विरुद्धमार्गाश्रणस्येव सूत्रविरुद्धाश्रयणस्यापि मार्गोच्छेदकारणस्याविशेषात् , तथा च द्वयोरप्युन्मार्गः समान एव । ४ तुल्येऽपि तेन दोषे पक्षविशेषेण या विशेषोक्तिः । सा निश्रितेति सूत्रोत्तीर्णा तां ब्रुवते मध्यस्थाः ॥ तीर्थोच्छेद इव मतः सूत्रोच्छेदोऽपि हंदि उन्मार्गः। . संसारश्चानन्तो भजनीयस्तत्र भाववशाद ॥५॥

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 278