Book Title: Danpradip Author(s): Charitraratna Gani, Chaturvijay Publisher: Jain Atmanand Sabha View full book textPage 4
________________ प्रस्तावना. दानप्रदीपे ॥ २॥ जयन्तु ते वाचकपुङ्गवाः श्रीचारित्ररत्ना गुरवो मदीयाः । यद्भाणिता वर्यविनेयवाराः कुर्वन्त्यनेका उपकारकोटीः॥" अनेन पद्यद्वितयेन, प्रस्तुतग्रन्थप्रतिप्रकाशावसानवर्तिना च__ "इति श्रीतपागच्छनायकश्रीजगचन्द्रसूरिसन्ताने श्रीदेवसुन्दरसूरिपट्टालङ्करणश्रीसोमसुन्दरसूरिशिष्यमहोपाध्यायश्रीचारित्ररत्नगणिविरचिते दानप्रदीपनाम्नि ग्रन्थे दाना साधारणदानफलप्रकाशनः प्रथमः प्रकाशः।" । इत्येतदुल्लेखेन महोपाध्यायश्रीमच्चारित्ररत्नगणयोऽस्य प्रणेतार इति प्रकटमेव । प्रस्तुतग्रन्थस्यास्याथैकादशप्रकाशेष्वनन्तरोक्त एवोल्लेखो | दृश्यते, तदाधारेण महोपाध्यायश्रीचारित्ररत्नगणयो बृहत्तपागच्छीयश्रीमत्सोमसुन्दरसूरीणां शिष्या अभूवन्निति प्रकटतया प्रतिभाति । परं प्रस्तुतग्रन्थस्य द्वादशप्रकाशप्रान्तवर्तिना प्रशस्तिमध्यवर्तिना च। "इति श्रीतपागच्छनायकश्रीजगच्चन्द्रसूरिसन्ताने श्रीदेवसुन्दरसूरिपट्टालकरणश्रीसोमसुन्दरसूरिशिष्यश्रीजिनसुन्दरसूरिविनेयमहोपाध्यायश्रीचारित्ररत्नगणिविरचिते श्रीदानप्रदीपनाम्नि ग्रन्थे पात्रदानगुणदोषप्रकाशनो नाम द्वादशः प्रकाशः ।" "विद्यानिधानजिनसुन्दरसूरिशिष्यः, श्रीसोमसुन्दरगणेन्द्रनिदेशवश्यः । चारित्ररत्नगणिरल्पमतिळधत्त, दानप्रदीपमिममात्मपरार्थसिद्धयै ॥" | इत्यनेनोल्लेखदर्शनेन महोपाध्यायश्रीचारित्ररत्नगणयः श्रीजिनसुन्दरसूरीणां विनेया अभूवन्नित्यपि प्रकटतया प्रतिभाति, इत्यनयोर्द्वयोर्मध्ये |एते केषां शिष्याः ? इति सन्देहे जायमानेऽत्रैवं समाधेयं “विद्यानिधानजिनसुन्दरसूरिशिष्यः" इत्यनेन वाक्येन श्रीमज्जिनसुन्दरसूरय एतेषां दीक्षागुरव एवेति निश्चीयते, श्रीसोमसुन्दरसूरीणां शिष्यत्वप्रकाशनं तु गच्छाधिपतित्वेन खगुरोर्गुरुत्वेन च न विरोधास्पदम् । एते वाचकपुङ्गवाः कदा भूमण्डलं मण्डयामासुः ! इति जिज्ञासायां प्रस्तुतग्रन्थप्रशस्त्युपन्यस्तेन SXCLASSE5K | ॥ २ ॥Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 408