Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 15
________________ ACANCLOCACAAAACAMAC | एम्भमभापत । निशाचरपते : साधु कुलोचितमवोचथाः ॥ ७४ । अनेन च शरीरेण नश्वरेणाचिरात् स्वयम् । जायते तव चेत्तृप्तिः प्राप्तं किं न तदा मया ।। ७५ ।। परं संप्रति सौत्सुक्यं गच्छाम्युपयमेच्छया । चम्पायां नृपकन्यायाः पणपूरणपूर्वकम् ।। ७६ ॥ कृतार्थोऽयकृतार्थो वा बलमानस्लवान्तिकम् । एष्यामि पूरयिष्यामि सर्व चैनं मनोरथम् ॥ ७७ ॥ प्राणालेऽपि प्रविज्ञान पपीति तिथि इदि तपोनिभिर्दन नरोजोनचाकृतः !! १८ ॥ नर्दि गादि शिवम्ने प्रस्तु! | पन्थाः साध्यं च साधय । तोऽपरेण में वेश्म तत्रागच्छेरतुच्छधीः ॥ ७९ ॥ इति तेनाभ्यनुज्ञातः कुमारः प्रस्थितस्ततः । प्रयाणैस्त्वरितैश्चम्पापुरी प्रापदभीप्सिताम् ॥ ८ ॥ कांश्चिदावासितांस्तत्राऽऽवास्यमानांश्च काश्चन । नव्यावासेषु भूमीशान | स ददर्श सहस्रशः ॥ ८१॥ ददर्श दिग्वधूरत्नभूषणायिततोरणम् । अयं मण्डपमुद्दण्डं स्वःखण्ड मिव भूमिगम् ॥ ८२ ॥ अश्रीपीत्पटहं राजपुरुषैः पुरमन्तरा । वाद्यमानमयं कन्यापणज्ञापनपूर्वकम् ॥ ८३ ।। पदे पदे मुदारब्धमहोत्सवपरंपरम् ।। स पुरं द्युपुरस्पर्द्धि दर्श दर्श विमिष्मिये ॥ ८४ ॥ अत्र चावसरे सौधगवाक्षस्थामलक्षितम् । इयेनप्रपातमापत्य कोऽपि कन्यामपाहरत् ॥ ८५॥ भुजिप्यास्तामवीक्ष्याथ वीक्षापन्नाः सुदुःखिताः । शिरोघातं महीकान्तपुरः पूच्चक्रुरुच्चकैः ॥८६॥ कोऽप्यलक्ष्यवपुः संप्रत्यपाहात्तिवाङ्गजाम् । तस्या गवेषणोपायः क्रियतां देव ! सत्वरम् ।। ८७ ॥ तदाकर्णनतो राजा वज्राहत इवाजनि । न्यक्षदिक्षु च तां मन स्वप्रेष्यैरगवेषयत् ॥ ८८ ॥ परं दूरेऽस्तु तत्प्राप्तिस्तच्छुद्धिरपि नाप्यत । विज्ञा अपि च दैवज्ञा न ता किश्चिदवादिषुः ॥ ८९ ॥ ततस्तद्विरहोत्थेन कीलिताः शोकाङ्कना । तारस्वरं जनन्याद्याः स्वजनाः प्रारुदन्निति ॥ ९० ॥ हा वत्से ! सहजस्वच्छे ! हा बुद्धिजितभारति !। हा मर्वगुणसंपूर्णे! हृता केनामि पापिना ॥९१॥

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 408