Book Title: Danpradip Author(s): Charitraratna Gani, Chaturvijay Publisher: Jain Atmanand Sabha View full book textPage 3
________________ प्रस्तावना। इहहि करुणावरुणालयैः समग्रपदार्थसार्थप्रकाशनासाधारणज्ञानभानुविभवैः श्रीमद्देवाधिदेवैदानशीलतपोभावनारूपश्चतुर्धा धर्मः प्ररूपितः । | तत्रानेकभेदभिन्नस्य दानधर्मस्य प्रधानता दर्शयितुं तैः स एव धुरि व्यवस्थापितः । यद्यपि श्रीजिनवरेन्द्रा ज्ञानाभयोपग्रहदानभेदतनिधा दानं जग|दुस्तथाप्येतद्वन्थकर्तृभिः कविवरैराद्यप्रकाशत्रितयेषु साधारणज्ञानाभयदानानां विस्तरेण स्वरूपं निरूप्यावशिष्टेषु नवसु प्रकाशेषु "सर्वो यतिष्वेव भवेत्रिधा ह्ययं, शीलादिधर्मः समये यथोदितः । अन्नाद्युपष्टम्भकदानहेतुक-स्तेषां तदाराधनसंभवः पुनः ।। अन्नाद्यधीना विदिता तनुस्थितिधर्मश्च सर्वस्तनुसाधनो यतः । इत्थं त्रयस्यापि निमित्तभावतो वदन्ति दानस्य बुधाः प्रधानताम् ॥ | ततश्च संसेवितमेव तत्रयं सम्यक्तदासेवननिष्णमानसैः । यथावदाराधयतो नरेश्वरं नाराधितः स्यात्किमु तत्परिच्छदः ॥" एतत्काव्यत्रयवर्णितस्योपग्रहदानस्य प्राधान्यं प्रकाशयितुकामै हकदातृदेयशुद्धस्योपष्टम्भदानस्यैवान्यान्यैः प्रधानपुरुषनिदर्शनैर्माहात्म्यवर्णनं कृतमस्ति । अपरं च दातृजननिदर्शनेषु गौणवृत्त्या तदाराधितशीलतपोभावनादेशसर्वविरत्यादिधर्माणां किञ्चित्किञ्चित्वरूपनिरूपणं कृतमस्ति । __ अस्य सरलसंस्कृतभाषामयस्य सुललितपदवर्णविन्यासजनितसहृदयहृदयानन्दस्य दानमाहात्म्यप्रकाशनपटोख्दप्रकाशात्मकस्य सान्वर्था| भिधेयस्य दानप्रदीपनानो ग्रन्थस्य के परोपकृतिकरणप्रवीणान्तःकरणाः प्रणेतारः ! इत्येतद्विषयस्य निर्णयस्त्वेतद्वन्थकारविनीतविनेयश्रीसोमधर्मगणिविरचितोपदेशसप्ततिकाप्रशस्तिगतेन "येषां बुद्धिरनुत्तरातिविषमग्रन्थार्थसाक्षात्कृति चेतःसद्मनि दीपिकेव सृजती प्रोज्जागरा सर्वदा । सर्वेषामुपयोगिनी समभवद्दानप्रदीपस्तथा अन्थो यद्विहितश्छिनत्ति कृतिनामद्यापि दुष्टं तमः ॥Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 408