Book Title: Dandak Prakaranam
Author(s): Gajasarmuni, Vijayodaysuri
Publisher: Granth Prakashak Sabha

View full book text
Previous | Next

Page 184
________________ ॥ दंडकपकरणं ।। पूर्वगायोक्तदण्डकशब्दो योजनीयः । असुरकुमारादीनां भवनपतिनिकायभेदेन दश दण्डकाः स्युरित्यर्थः, अस्यन्ति क्षिपन्ति देषान् सुरान् ते असुराः, कुमाराकाराः कुमारपत्क्रीडाप्रियत्वाञ्च कुमाराः, ते च ते कुमाराश्च असुरकुमाराः । ते आदौ येषां ते असुरकुमारादयः । तेषां दशप्रकारत्वादश दण्डकाः स्युरित्यर्थः, तथा पृथिव्यादीनां पृथिव्यप्तेजोवायवनस्पतिनिकायभेदानां पश्च दण्डकाः स्युः । द्वीन्द्रिया आदौ येषां ते हीन्द्रियादयः । तत्र (a) शरीररसनालक्षणे इन्द्रिये येषां ते द्वीन्द्रियाः । यथाशतकपर्देत्यादयः। त्रीणि शरीररसनाघ्राणलक्षणानि इन्द्रियाणि येषां ते त्रीन्द्रियाः । यथा-पिपीलिकामत्कुणेत्यादयः । चत्वारि शरीररसनाघ्राणचक्षुलक्षणानि इन्द्रियाणि येषां ते चतुरिन्द्रियाः। यथा-मक्षिकाभ्रमरपतवृश्चिकेत्यादयः । एवं द्वित्रिचतुरिन्द्रियैः कृत्वा दण्डकास्त्रयो जाताः स्युरित्यर्थः । गर्भ भवाः गर्भजाः ते च ते निर्यश्चश्च मनुष्याच गर्भजतियग्मनुष्यास्तेषां द्वौ दण्डको स्यातामित्यर्थः । तथा विविधमन्तरं बनान्तरादिकमाश्रयतया येषां ते व्यन्तराः यद्वा भृत्यवञ्चक्रवाराधकन्वन विगतोऽन्तरं -विशेषो मनुष्येभ्यो येषां ते तथा, वनानामन्तरे भवाः पृषोदरादित्वान्मागमः वानमन्तराः तेषामेको दण्डकः स्यात् । ज्योतिष्काणां चन्द्र सूर्यग्रहनक्षत्रताराणामेको दण्डको. ज्ञेयः । वैमानिकानामेको दण्डकः । ते च द्विधा-कल्पोपपन्नाः कल्पातीताश्च । तत्र कल्पः स्थिति तं मर्यादेत्येकार्थाः । स च इन्द्रतत्स. मानिकादिव्यवस्थारूपस्तं प्रतिपन्नाः कल्पोपपन्नाः ग्रैवेयकानुत्तरवासिनस्तु कल्पानीताः, तेषां सवैषामप्यहमिन्द्रत्वा । विमा. न्ति वर्तन्तेऽस्मिन् देवा इति विमानं तत्र भवा वैमानिकाः । नैरयिकादिवैमानिकान्ता एते चतुर्विशतिदण्डकाः ज्ञातव्याः । अत्र चकारः समुच्चयार्थः एवशब्दो निश्चयाथै ज्ञेयः । अत्र गाथा. यां दण्डकशब्दोऽनुक्तोऽपि दण्डकशब्दो ग्राह्यः । अत्र दण्डक. शब्देन किमुच्यते ? तबाह-तजातीयसमूहप्रतिपादकत्वं ज्ञेयमित्यर्थः । संक्षेपतो गाथाद्वितीयस्य (द्वितीयगाथायाः ) व्या. ख्यानं विहितं । इह सूक्ष्मा अपर्याप्ताश्च प्रायो नाधिक्रियन्ते ॥२॥

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222