________________
॥ दंडकपकरणं ।।
पूर्वगायोक्तदण्डकशब्दो योजनीयः । असुरकुमारादीनां भवनपतिनिकायभेदेन दश दण्डकाः स्युरित्यर्थः, अस्यन्ति क्षिपन्ति देषान् सुरान् ते असुराः, कुमाराकाराः कुमारपत्क्रीडाप्रियत्वाञ्च कुमाराः, ते च ते कुमाराश्च असुरकुमाराः । ते आदौ येषां ते असुरकुमारादयः । तेषां दशप्रकारत्वादश दण्डकाः स्युरित्यर्थः, तथा पृथिव्यादीनां पृथिव्यप्तेजोवायवनस्पतिनिकायभेदानां पश्च दण्डकाः स्युः । द्वीन्द्रिया आदौ येषां ते हीन्द्रियादयः । तत्र (a) शरीररसनालक्षणे इन्द्रिये येषां ते द्वीन्द्रियाः । यथाशतकपर्देत्यादयः। त्रीणि शरीररसनाघ्राणलक्षणानि इन्द्रियाणि येषां ते त्रीन्द्रियाः । यथा-पिपीलिकामत्कुणेत्यादयः । चत्वारि शरीररसनाघ्राणचक्षुलक्षणानि इन्द्रियाणि येषां ते चतुरिन्द्रियाः। यथा-मक्षिकाभ्रमरपतवृश्चिकेत्यादयः । एवं द्वित्रिचतुरिन्द्रियैः कृत्वा दण्डकास्त्रयो जाताः स्युरित्यर्थः । गर्भ भवाः गर्भजाः ते च ते निर्यश्चश्च मनुष्याच गर्भजतियग्मनुष्यास्तेषां द्वौ दण्डको स्यातामित्यर्थः । तथा विविधमन्तरं बनान्तरादिकमाश्रयतया येषां ते व्यन्तराः यद्वा भृत्यवञ्चक्रवाराधकन्वन विगतोऽन्तरं -विशेषो मनुष्येभ्यो येषां ते तथा, वनानामन्तरे भवाः पृषोदरादित्वान्मागमः वानमन्तराः तेषामेको दण्डकः स्यात् । ज्योतिष्काणां चन्द्र सूर्यग्रहनक्षत्रताराणामेको दण्डको. ज्ञेयः । वैमानिकानामेको दण्डकः । ते च द्विधा-कल्पोपपन्नाः कल्पातीताश्च । तत्र कल्पः स्थिति तं मर्यादेत्येकार्थाः । स च इन्द्रतत्स. मानिकादिव्यवस्थारूपस्तं प्रतिपन्नाः कल्पोपपन्नाः ग्रैवेयकानुत्तरवासिनस्तु कल्पानीताः, तेषां सवैषामप्यहमिन्द्रत्वा । विमा. न्ति वर्तन्तेऽस्मिन् देवा इति विमानं तत्र भवा वैमानिकाः । नैरयिकादिवैमानिकान्ता एते चतुर्विशतिदण्डकाः ज्ञातव्याः । अत्र चकारः समुच्चयार्थः एवशब्दो निश्चयाथै ज्ञेयः । अत्र गाथा. यां दण्डकशब्दोऽनुक्तोऽपि दण्डकशब्दो ग्राह्यः । अत्र दण्डक. शब्देन किमुच्यते ? तबाह-तजातीयसमूहप्रतिपादकत्वं ज्ञेयमित्यर्थः । संक्षेपतो गाथाद्वितीयस्य (द्वितीयगाथायाः ) व्या. ख्यानं विहितं । इह सूक्ष्मा अपर्याप्ताश्च प्रायो नाधिक्रियन्ते ॥२॥