Book Title: Dandak Prakaranam
Author(s): Gajasarmuni, Vijayodaysuri
Publisher: Granth Prakashak Sabha

View full book text
Previous | Next

Page 201
________________ (२०) ॥सावर्णिकं सटीकं च ॥ अथ द्वादशं ज्ञानद्वारं व्याख्यानयतिअन्नाण नाण तिय तिय, सुरतिरिनिरए थिरे अनाणदुगं नाणन्नाणदु विगले, मणुए पण नाण ति अनाणा२०॥ (अव०) द्वन्द्वैकवद्भावात् सुरतियग्निरये ज्ञान त्रिकं ज्ञानत्रिकं च भवति सम्यत्तवप्राप्तौ स्थिरे ज्ञानद्विकं,यद्यपि भूदकवनेषु सडान्तिकमतेन सम्यत्तवं वमता देवानां तेषूपादे सास्वादनसद्भावाच्च श्रुनमती भवतः, पर नेहाधिकृते विकले ज्ञानाज्ञानयोटिवं,मनुष्येषु पश्च ज्ञानानि त्रीण्यज्ञानानि भवन्ति ॥ २० ॥ चतुर्दशं योगद्वारमाह टीका- अन्नाणनाणेति० मर्वेषु देवेषु तियक्षु नरयिथेषु च ज्ञानत्रिकं भवति, त्रीणि मतिज्ञानश्रुतज्ञानाधिज्ञानरूपाणि भव. सीत्यर्थः । च पुनः विकलेषु वित्रिचतुरिन्द्रियेषु ज्ञान द्विकं भ. पति, मतिज्ञानश्रतज्ञाने स्यातामित्यर्थः । च पुन: मनुष्येषु पञ्चज्ञानानि भवन्ति, मतिज्ञानश्रुतज्ञानावधिज्ञानमनःपर्यायज्ञान केवलज्ञानरूपाणि भवन्तीत्यर्थः । द्वादशं ज्ञानद्वार प्ररूपितम् । अथ गाथान्तभूतं प्रयोदशमशानद्वारं निरूप्यते-सर्वेषु देवेषु तिर्यक्षु नैरयिकेषु त्रीणि मत्यज्ञानश्रताज्ञान विभङ्गज्ञानरूपाणि अज्ञानानि भवन्ति । च पुनः स्थावरेषु अज्ञान द्विकं भवति, मत्यज्ञानं श्रताज्ञानं च स्यादित्यर्थः । पुनः विकलेषु अज्ञान हि कं भवति, मत्यज्ञानं श्रुताज्ञानं च स्यादित्यर्थः । मनुष्येषु मत्यज्ञानश्रता ज्ञानविभाज्ञानरूपाणि त्रीण्यज्ञानानि भवन्ति । ज्ञानद्वारान्तरज्ञा नदारमन्तभूतं तच्च प्रादुष्कृतं । अत्र चकार: समुच्चयार्थ: ॥२०॥ अज्ञानद्वारं संहरनथ चतुर्दशं योगद्वारमाहसच्चेअरमीसअसच्च-मोस मणवय विउव्विाहारे । उरलं मासा कम्मण, इय जोगा देसिया समए॥२१॥

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222