Book Title: Dandak Prakaranam
Author(s): Gajasarmuni, Vijayodaysuri
Publisher: Granth Prakashak Sabha

View full book text
Previous | Next

Page 210
________________ ॥ दण्डकमकरणं ॥ (२९) चउविहसुरतिरिएसुं, निरएसु य दीहकालिगी सन्ना । विगले हेउवएसा, सन्नारहिया थिरा सव्वे ॥ ३२ ॥ ( अव० ) चतुर्विधसुरतिर्यक्षु निरयेषु च दीर्घकालिकी संज्ञा । दीर्घौऽतीतानागतवर्त्तमानविषयः कालो ज्ञेयो यस्या इति व्युत्पत्तेः, विकले हेतूपदेशिकी संज्ञा । किञ्चिन्मनोज्ञानसहिता वर्तमानविषया संज्ञेत्यर्थः । विशिष्टैतत्संज्ञात्रयरहिताः सर्वे स्थिरा ज्ञेयाः ||३२|| टीका - चउविहेति० चतुर्विधसुरेषु तिर्यक्षु नैरयिकेषु च दी. कालिकसंज्ञा भवति । अत्र चकारः समुच्चयार्थः भवतीत्य ध्याहारः । यः पुरुषः दीर्घमपि कालं विषयमतीतमर्थ स्मरति भविष्यश्च वस्तु चिन्तयति । कथं नु नाम मया कर्तव्यमिति स दीर्घकालिक्युपदेशेन युक्तः । विकलेषु विकलेन्द्रियेषु हेतूपदेशिकी संज्ञा स्यात । यस्तु संविन्त्येष्टानिष्टेषु छायातपादिवस्तुषु स्वदेहपालन हेतोः प्रवृत्तिनिवृत्ती विधत्ते स हेतूपवादोपदेशेन युक्तः । सर्वे स्थावराः संज्ञारहिता भवन्ति । स्थावरेषु संज्ञा न भवन्तीत्यर्थः ॥ ३२ ॥ केषु केषु काः संज्ञा भवन्ति ? ता आहमाण दीहकालिय, दिट्ठीवाऊवइसिया केवि । पण पजतिरिमणुअच्चिय, चउविहदेवेसु गच्छेति ॥ ३३ ॥ ( अ० ) मनुजानां दीर्घकालिकी संज्ञा । दृष्टिवादोपदेशिकी क्षायोपशमिकादिसम्यक्तसहिताः केऽपि । पञ्चेन्द्रिय तिर्यचोऽप्येत संज्ञायुक्ता भवन्ति । केचित् परमत्यत्वान्न विवक्षिताः, द्वाविंशं ग विद्वारं त्रयोविशमागतिद्वारं चाह । पर्याप्ताः पञ्चेन्द्रियाश्च तिर्यचो मनुजाश्चतुर्विधदेवषु गच्छन्ति । न शेषजीवाः । इति देवानामागति द्वारम् || ३३ || अथ देवानां गतिद्वारमाह

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222