Book Title: Dandak Prakaranam
Author(s): Gajasarmuni, Vijayodaysuri
Publisher: Granth Prakashak Sabha
View full book text
________________
॥ दण्डकपकरणम् ॥
(३५)
संख्यातगुणाः । एभ्यो भवनपतयोऽमंख्यातगुणाः । एभ्यो नारका असंख्यातगुणाः । एभ्यो व्यंतरा असंख्यातगुणाः । एभ्यो ज्योतिष्काः संख्यातगुणाः । एभ्यश्चतुरिंद्रियाः संख्यातगुणाः । एभ्यो पंचेन्द्रियास्तियचो विशेषाधिकाः । एभ्यो हींद्रिया विशेषाधिकाः एभ्यस्त्रीन्द्रिया विशेषाधिकाः । एभ्यः पृथ्वीकाया विशेषाधिकाः । ततोऽपुकाया विशेषाधिकाः। अप्कायिकेभ्यो वायुकायिका असंख्यातगुणाः । ततो वनस्पतयोऽनन्तगुणाः । संख्यातगुणेन असंख्यातगुणेन अनन्तगुणेन च यथासम्भवमिमे जीवाः क्रमेणाधिका भवन्ति । अथ ग्रन्थकारो जिमान् स्तौति । सर्वेऽपि च इमे पूर्वोक्ता भावाः तेषु तेषु जीवस्थानकेषु गमनागमनरूपा हे जिनाः मया भवे भ्रमता अनन्तशः अनन्तकृत्वः प्राप्ताः यथा मया तथाऽन्यैरपि जीवैः । एतेन स्वामिनः पुरः स्वदुःख निवेदितम् । अथ तद्विमोचनलक्षणां प्रार्थनामाह।
टीका- पन्जमणुइति० पजत्ति बायरत्ति पदं वदतः सूत्रकृतो. ऽयमाशयः-यदहं पर्याप्तबावरजीवविषयमेवाल्पत्वबहुत्वं वदिष्या. मि नापर्याप्तसूक्ष्म विषयमिति । इह संसारे सर्वजीवेभ्यः सर्वस्तोका: गर्भजमनुष्यास्तेभ्योबादराग्नयः पर्याप्ताः असंख्येयगुणाधि कास्तेभ्यो वैमानिका देवा असंख्येयगुणाधिकास्तेभ्यो भवनवा सिनो देवा असंख्येयगुणाधिकास्तेभ्यो नैरयिका असंख्येयगुणाधिकास्तेभ्योव्यन्तरा असंख्येयगुणाधिकास्तेभ्यो ज्योतिष्काः संख्येय गुणाधिकास्तेभ्यश्चतुरिन्द्रियाः पर्याप्ताः संख्येयगुणाधिकास्तेभ्यः संज्ञिनः पञ्चेन्द्रिया विशेषाधिकास्ततो द्वी. न्द्रिया विशेषाधिकास्ततस्त्रीन्द्रिया विशेषाधिकास्तेभ्यः पृथवीकायिका जीवा असंख्यातगुणाधिकास्तेभ्योऽप्कायिका जीवा असंख्य गुणाधिकास्तेभ्यो वायुकायिका जीवा असंख्येयगुणाधिकास्तेभ्यो वनस्पतिकायिका जीवा अनन्तगुणाः क्रमेण इमे पूर्वोक्तपदार्थाः अधिका अधिका भवन्ति, मनुष्यादिवनस्प.

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222