Book Title: Dandak Prakaranam
Author(s): Gajasarmuni, Vijayodaysuri
Publisher: Granth Prakashak Sabha
View full book text
________________
॥ दण्डकपकरणं ॥
(१३)
संघयणछक्कं गब्भय-नरतिरिएसुं मुणेयव्वं ॥ ११ ॥
(अव०)स्थावरमुरनैरयिकाः संहननरहिताः अस्थ्यभावादेव । चः समुच्चये किं समुच्चिनोति सैडान्तिकमतेन सुरा नारकाच प्रथमसंहननिनः विकलाः सेवार्ता इति अस्थिसम्बन्धमात्रसंहननवन्तः,गर्भजनरतिरश्चोः संहननषदकं ज्ञातव्यम् । ३ द्वा० ॥ ११ ॥ चतुर्थे मंज्ञाद्वारमाह
टीका-थावरसुरेति. पानां स्थावराणां, त्रयोदशदेवानां, सातपृथिवीभेदेनैकः नारकाणां सर्वमीलनेनैकोनविंशतिर्दण्डका जातास्तेषु दण्डकेषु षडपि महननानि न सन्ति न ज्ञातव्यानि इत्यर्थः । विकलेन्द्रियाणां द्वित्रिचतुरिन्द्रियाणां संमूच्छिमपञ्चेन्द्रियतिर्यग्नराणां च संहननं सेवार्त ज्ञातव्यम् । कार्म ग्रन्थिकास्तु संमूच्छिमपञ्चेन्द्रियतिरश्चां अपि षडप्याहुः। क्वचिदेकेन्द्रि. याणां सेवात देवानां च वर्षभनाराचमुक्त, तदोपचारिकं । तुशब्दार्थ अपिशब्दः, तु पुनः गर्भजतिर्यग्मनुष्ययोः षडपि संहननानि ज्ञातव्यानि । को भावः ? गर्भज तिर्यग्नरेषु षडपि मंहननान्याहुः विकलेऽवेक सेवात मन्येष्वेकोनविंशतिदण्डकेषु न संहननानि भवन्ति इत्यर्थः । अत्र चकारः समुच्चयार्थः ॥११॥
संहननद्वारं तृतीयं निगमयन्नथ संज्ञाद्वाराभिधित्सया चतुर्थ मझादवारं व्याख्यानयति--- सव्वेसिं चउ दह वा, सन्ना सव्वे सुरा य चउरंसा । नर तिरि छस्तंठाणा, हुंडा विगलिन्दिनेरइआ॥१२॥ (अव०)संज्ञा सर्वजीवानां चतस्रो दश वा, केषाश्चिन्नृणां षोडशापि परमल्पत्वान्न विवक्षितम । ४द्वा० । पञ्चमं संस्थानद्वारमाह- सर्वे मुराश्च भीमो भीमसेन इतिन्यायेन समचतुरस्र संस्थानाः। नरतियश्चौ षट् संस्थानौ विकलेन्द्रियनैरयिका हुण्डसंस्थानाः ॥१२॥ स्थिराणां षइविधसंस्थानराहित्येऽपि संस्थानानां आकारभेदत्वादेव एतच्छरीराकारानाह

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222