SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ ॥ दण्डकपकरणं ॥ (१३) संघयणछक्कं गब्भय-नरतिरिएसुं मुणेयव्वं ॥ ११ ॥ (अव०)स्थावरमुरनैरयिकाः संहननरहिताः अस्थ्यभावादेव । चः समुच्चये किं समुच्चिनोति सैडान्तिकमतेन सुरा नारकाच प्रथमसंहननिनः विकलाः सेवार्ता इति अस्थिसम्बन्धमात्रसंहननवन्तः,गर्भजनरतिरश्चोः संहननषदकं ज्ञातव्यम् । ३ द्वा० ॥ ११ ॥ चतुर्थे मंज्ञाद्वारमाह टीका-थावरसुरेति. पानां स्थावराणां, त्रयोदशदेवानां, सातपृथिवीभेदेनैकः नारकाणां सर्वमीलनेनैकोनविंशतिर्दण्डका जातास्तेषु दण्डकेषु षडपि महननानि न सन्ति न ज्ञातव्यानि इत्यर्थः । विकलेन्द्रियाणां द्वित्रिचतुरिन्द्रियाणां संमूच्छिमपञ्चेन्द्रियतिर्यग्नराणां च संहननं सेवार्त ज्ञातव्यम् । कार्म ग्रन्थिकास्तु संमूच्छिमपञ्चेन्द्रियतिरश्चां अपि षडप्याहुः। क्वचिदेकेन्द्रि. याणां सेवात देवानां च वर्षभनाराचमुक्त, तदोपचारिकं । तुशब्दार्थ अपिशब्दः, तु पुनः गर्भजतिर्यग्मनुष्ययोः षडपि संहननानि ज्ञातव्यानि । को भावः ? गर्भज तिर्यग्नरेषु षडपि मंहननान्याहुः विकलेऽवेक सेवात मन्येष्वेकोनविंशतिदण्डकेषु न संहननानि भवन्ति इत्यर्थः । अत्र चकारः समुच्चयार्थः ॥११॥ संहननद्वारं तृतीयं निगमयन्नथ संज्ञाद्वाराभिधित्सया चतुर्थ मझादवारं व्याख्यानयति--- सव्वेसिं चउ दह वा, सन्ना सव्वे सुरा य चउरंसा । नर तिरि छस्तंठाणा, हुंडा विगलिन्दिनेरइआ॥१२॥ (अव०)संज्ञा सर्वजीवानां चतस्रो दश वा, केषाश्चिन्नृणां षोडशापि परमल्पत्वान्न विवक्षितम । ४द्वा० । पञ्चमं संस्थानद्वारमाह- सर्वे मुराश्च भीमो भीमसेन इतिन्यायेन समचतुरस्र संस्थानाः। नरतियश्चौ षट् संस्थानौ विकलेन्द्रियनैरयिका हुण्डसंस्थानाः ॥१२॥ स्थिराणां षइविधसंस्थानराहित्येऽपि संस्थानानां आकारभेदत्वादेव एतच्छरीराकारानाह
SR No.022358
Book TitleDandak Prakaranam
Original Sutra AuthorN/A
AuthorGajasarmuni, Vijayodaysuri
PublisherGranth Prakashak Sabha
Publication Year1925
Total Pages222
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy