SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ (१२) ॥ सावचूर्णिकं सटीकं च ॥ - यथाऽऽधायां रत्नप्रभायां धनुःपञ्चदशकं हस्तद्वयं द्वादशांगुलप्रमाणं । ततो द्वितीयायां धनुष(नषि) एकत्रिंशद्धस्तमेकं । तृतीयायां द्वाषष्टि हस्तद्वयं । तुर्यायां धनुषः (षां) पञ्चविंशत्य. धिकं शतं । पञ्चम्यां पञ्चाशदधिकं शतद्वयं नैरयिकाणां देहमानमुञ्चत्वेन स्यात् । षष्ठयां नारकाणां धनुःपञ्चशतानि शरीरं स्यात् । पुनः सप्तम्यां नैरयिकाणामुच्चत्वेन धनुःसहस्रमेकं उत्तरवैक्रियदेहमान स्यादित्यर्थः । जघन्यतस्तु तदेव नारकाणां द्विविधाऽपि स्वाभाविक उत्तरवैक्रियश्च क्रमादंगुलासख्यातांशोऽऽङ्गुलसंख्यातांशश्च, जघन्पश्चोत्पत्तिसमय एव नान्यदा ॥ ९ ॥ अथ उत्तरवैक्रियशरीरमानमाहअंतमुहुर्त निरए,मुहुत्तचत्तारि तिरियमणुएसुं। देवेसु श्रद्धमासो, उक्कोस विउवणाकालो ॥१०॥ (अव०) इतिवचनसामर्थ्यात् अन्तर्मुहूर्तचतुष्टयं तेषां देशबन्ध इत्युच्यते सन्मतान्तरमित्यवसेयम् । तृतीयसंहननद्वारमाह ॥१०॥ टीका-अन्तमुहुत्तन्ति नरकस्थजीवानां वैकियशरीरस्यान्त. मुहूर्तमुत्कृष्टमानं भवति । तिर्यग्मनुष्ययोक्रियशरीरस्य चत्वारो मुहूर्ताः उत्कृष्टाः स्थितयो भवन्ति (तिर्भवति) इत्यध्याहारः । भवनपत्यादिसौधर्माद्यच्युतान्तदेवानां उत्कृष्टत: उत्तरवैक्रियवपु. षोऽर्द्धमासः काल: स्यात्। क्रिश्चिद्विशेषमाह-देवनैरयिकयोः स्वाभाविकवैक्रियदेह उत्तरवैक्रियदेहच स्यात्,च पुनः तिर्यग्नरयोकियदेह. (अस्वाभाविकः) स्यात्। वायोरस्वाभाविकं स्वाभाविकदेह स्यात् । केषाञ्चिन्मते औदारिकं वैक्रियं च, केषाञ्चिन्मते वैक्रियमेवेत्यनुयोगद्वारवृत्तौ प्रोक्तमित्यर्थः । पृथिव्यप्तेजोवनस्पतिषु विकलेन्द्रियेषु च वैक्रियदेहा न स्युरिति भावः । देहशब्दः पुं. क्लीबत्वं (बः) । अवगाहनाद्वारं द्वितीयं प्ररूपितं ॥ १० ॥ अथ संहनन द्वारं तृतीयमाहथावरसुरनेरइया, अस्संघणा य विगलवहा।
SR No.022358
Book TitleDandak Prakaranam
Original Sutra AuthorN/A
AuthorGajasarmuni, Vijayodaysuri
PublisherGranth Prakashak Sabha
Publication Year1925
Total Pages222
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy