Book Title: Dandak Prakaranam
Author(s): Gajasarmuni, Vijayodaysuri
Publisher: Granth Prakashak Sabha
View full book text
________________
(१२)
॥ सावचूर्णिकं सटीकं च ॥
-
यथाऽऽधायां रत्नप्रभायां धनुःपञ्चदशकं हस्तद्वयं द्वादशांगुलप्रमाणं । ततो द्वितीयायां धनुष(नषि) एकत्रिंशद्धस्तमेकं । तृतीयायां द्वाषष्टि हस्तद्वयं । तुर्यायां धनुषः (षां) पञ्चविंशत्य. धिकं शतं । पञ्चम्यां पञ्चाशदधिकं शतद्वयं नैरयिकाणां देहमानमुञ्चत्वेन स्यात् । षष्ठयां नारकाणां धनुःपञ्चशतानि शरीरं स्यात् । पुनः सप्तम्यां नैरयिकाणामुच्चत्वेन धनुःसहस्रमेकं उत्तरवैक्रियदेहमान स्यादित्यर्थः । जघन्यतस्तु तदेव नारकाणां द्विविधाऽपि स्वाभाविक उत्तरवैक्रियश्च क्रमादंगुलासख्यातांशोऽऽङ्गुलसंख्यातांशश्च, जघन्पश्चोत्पत्तिसमय एव नान्यदा ॥ ९ ॥
अथ उत्तरवैक्रियशरीरमानमाहअंतमुहुर्त निरए,मुहुत्तचत्तारि तिरियमणुएसुं। देवेसु श्रद्धमासो, उक्कोस विउवणाकालो ॥१०॥
(अव०) इतिवचनसामर्थ्यात् अन्तर्मुहूर्तचतुष्टयं तेषां देशबन्ध इत्युच्यते सन्मतान्तरमित्यवसेयम् । तृतीयसंहननद्वारमाह ॥१०॥
टीका-अन्तमुहुत्तन्ति नरकस्थजीवानां वैकियशरीरस्यान्त. मुहूर्तमुत्कृष्टमानं भवति । तिर्यग्मनुष्ययोक्रियशरीरस्य चत्वारो मुहूर्ताः उत्कृष्टाः स्थितयो भवन्ति (तिर्भवति) इत्यध्याहारः । भवनपत्यादिसौधर्माद्यच्युतान्तदेवानां उत्कृष्टत: उत्तरवैक्रियवपु. षोऽर्द्धमासः काल: स्यात्। क्रिश्चिद्विशेषमाह-देवनैरयिकयोः स्वाभाविकवैक्रियदेह उत्तरवैक्रियदेहच स्यात्,च पुनः तिर्यग्नरयोकियदेह. (अस्वाभाविकः) स्यात्। वायोरस्वाभाविकं स्वाभाविकदेह स्यात् । केषाञ्चिन्मते औदारिकं वैक्रियं च, केषाञ्चिन्मते वैक्रियमेवेत्यनुयोगद्वारवृत्तौ प्रोक्तमित्यर्थः । पृथिव्यप्तेजोवनस्पतिषु विकलेन्द्रियेषु च वैक्रियदेहा न स्युरिति भावः । देहशब्दः पुं. क्लीबत्वं (बः) । अवगाहनाद्वारं द्वितीयं प्ररूपितं ॥ १० ॥
अथ संहनन द्वारं तृतीयमाहथावरसुरनेरइया, अस्संघणा य विगलवहा।

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222