Book Title: Dandak Prakaranam
Author(s): Gajasarmuni, Vijayodaysuri
Publisher: Granth Prakashak Sabha
View full book text
________________
॥ सावर्णिकं सटीकं च ॥
यन्ते शरीरपुद्रला. येन तत् अथवा संहन्यन्ते संहति. विशेष प्राप्यन्ते शरीरावस्थापयवा यैस्तानि संहननानि । तानि ( च ) वज्रर्षभनाराचादिभेदात् षोढा । संस्थान द्वेधा, जीवानां अजीवानां च । सतिष्ठन्ते प्राणिनोऽनेनाकारविशेषेणेति संस्थान तञ्च षोढा समचतुरनन्यग्रोधसादिवामनकुब्जहुंडभेदः संस्थानानि भवन्ति । द्वितीय तु अजीवानां रूपिणां पञ्चधा संस्थान यथा,-परिमण्डलं वृत्तं यत्रं चतुम्रमायतं च । इह तु जीवानां संस्थाने (न ) प्रयोजनमित्यर्थः । संज्ञाश्चतुर्धा दशधा वा भपन्ति । चत्वारः प्रकारा यासां ताः । अथवा दश प्रकारा या. सां ताः । यथा-आहारभयपरिग्रहमैथुनभेदाच्चतुर्धा । ( पूर्वोक्तभेदचतुष्क ) क्रोधमानमायालोभओघलोकभेदाच्चेति दश संज्ञाः स्युरित्यर्थः । तथा ग्रन्थान्तरोक्ताः सुखदुःखमोहधर्मरूपाश्चतस्रः एतास्वेवान्तर्भवन्ति इत्यर्थः ( अनया ) संजानातीति संज्ञा । कष्यन्ते हिंस्यन्ते प्राणिनोऽस्मि निति कषः संसारस्तस्यायो लामो येभ्यस्ते कषायाः क्रोधादयश्चत्वारोऽप्यनन्तानुबन्ध्यादिभेदेन षोडश भवन्ति । लेश्याः कृष्णाद्याः षोढा स्युः । लिश्यते -श्लिष्यते कर्मणा सह जीवः आभिरिति लेश्याः । यदुक्तं.. " कृष्णादिद्रव्यसाचिव्यात्, परिणामों य आत्मनः । स्फटिक.स्येव तत्रायं, लेश्याशब्दः प्रवर्तते ” ॥ १ ॥ कृष्णानीलकापो. ततेजःपद्मशुक्लरूपाः,परमत्र ता द्रव्यरूपा अवस्थिता विचार्या न भावरूपाः । इन्द्रियं श्रोत्रादिभेदात् पञ्चधा । दुसमुग्धायेति. बौ समुद्घातौ जीवाजीवसम्बन्धिनौ भवतः । तत्राचं जीवसमु. घातमाह-तथाहि-सम्यक् आत्मनो वेदनादिभिरेकीभावेन उ. स्प्राबल्येन घातः समुद्रातः । स च सप्तधा, यथा-वेदनाकषायमरणवैक्रियेत्यादि । वेदनादीनां षण्णां मानमन्तर्मुहूर्त स्यात् सप्तमस्तु केवलिसमुद्घातो दण्डादिना लोकव्यापी, दण्डादि क्रमेण सकललोकस्य पूरणात्, कालतोऽष्टसामयिकः । द्वितीयन्तु समुद्घातोऽचित्तमहास्कन्धरूपः; स च केवलिसमुद्घातवत् अ. टसामयिकः परमिहानधिकारान्नोक्तं । दिट्टी० दृष्टिविधा, यथा सम्यग्दृष्टिः १, मिथ्यावृष्टिः २, सम्यग्मिथ्यावृष्टिः ३ ( च ) ।

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222