SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ॥ सावर्णिकं सटीकं च ॥ यन्ते शरीरपुद्रला. येन तत् अथवा संहन्यन्ते संहति. विशेष प्राप्यन्ते शरीरावस्थापयवा यैस्तानि संहननानि । तानि ( च ) वज्रर्षभनाराचादिभेदात् षोढा । संस्थान द्वेधा, जीवानां अजीवानां च । सतिष्ठन्ते प्राणिनोऽनेनाकारविशेषेणेति संस्थान तञ्च षोढा समचतुरनन्यग्रोधसादिवामनकुब्जहुंडभेदः संस्थानानि भवन्ति । द्वितीय तु अजीवानां रूपिणां पञ्चधा संस्थान यथा,-परिमण्डलं वृत्तं यत्रं चतुम्रमायतं च । इह तु जीवानां संस्थाने (न ) प्रयोजनमित्यर्थः । संज्ञाश्चतुर्धा दशधा वा भपन्ति । चत्वारः प्रकारा यासां ताः । अथवा दश प्रकारा या. सां ताः । यथा-आहारभयपरिग्रहमैथुनभेदाच्चतुर्धा । ( पूर्वोक्तभेदचतुष्क ) क्रोधमानमायालोभओघलोकभेदाच्चेति दश संज्ञाः स्युरित्यर्थः । तथा ग्रन्थान्तरोक्ताः सुखदुःखमोहधर्मरूपाश्चतस्रः एतास्वेवान्तर्भवन्ति इत्यर्थः ( अनया ) संजानातीति संज्ञा । कष्यन्ते हिंस्यन्ते प्राणिनोऽस्मि निति कषः संसारस्तस्यायो लामो येभ्यस्ते कषायाः क्रोधादयश्चत्वारोऽप्यनन्तानुबन्ध्यादिभेदेन षोडश भवन्ति । लेश्याः कृष्णाद्याः षोढा स्युः । लिश्यते -श्लिष्यते कर्मणा सह जीवः आभिरिति लेश्याः । यदुक्तं.. " कृष्णादिद्रव्यसाचिव्यात्, परिणामों य आत्मनः । स्फटिक.स्येव तत्रायं, लेश्याशब्दः प्रवर्तते ” ॥ १ ॥ कृष्णानीलकापो. ततेजःपद्मशुक्लरूपाः,परमत्र ता द्रव्यरूपा अवस्थिता विचार्या न भावरूपाः । इन्द्रियं श्रोत्रादिभेदात् पञ्चधा । दुसमुग्धायेति. बौ समुद्घातौ जीवाजीवसम्बन्धिनौ भवतः । तत्राचं जीवसमु. घातमाह-तथाहि-सम्यक् आत्मनो वेदनादिभिरेकीभावेन उ. स्प्राबल्येन घातः समुद्रातः । स च सप्तधा, यथा-वेदनाकषायमरणवैक्रियेत्यादि । वेदनादीनां षण्णां मानमन्तर्मुहूर्त स्यात् सप्तमस्तु केवलिसमुद्घातो दण्डादिना लोकव्यापी, दण्डादि क्रमेण सकललोकस्य पूरणात्, कालतोऽष्टसामयिकः । द्वितीयन्तु समुद्घातोऽचित्तमहास्कन्धरूपः; स च केवलिसमुद्घातवत् अ. टसामयिकः परमिहानधिकारान्नोक्तं । दिट्टी० दृष्टिविधा, यथा सम्यग्दृष्टिः १, मिथ्यावृष्टिः २, सम्यग्मिथ्यावृष्टिः ३ ( च ) ।
SR No.022358
Book TitleDandak Prakaranam
Original Sutra AuthorN/A
AuthorGajasarmuni, Vijayodaysuri
PublisherGranth Prakashak Sabha
Publication Year1925
Total Pages222
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy