________________
॥ दंडकपकरणम् ॥
मतिश्रुतावधिमनःपर्यायकेवलभेदात् पञ्चधा ।१२। अत्र ज्ञानसाहचदिनुक्तमप्यज्ञानं ग्राह्यम् । तच्च विधा, मत्यज्ञानं श्रुताज्ञानं विभङ्गज्ञानरूपम् । १३ । योगाः पञ्चदश, मनोयोगश्चतुर्धा वाग्योगचतुर्धा, औदारिको १ दारिकमिश्र २ वैक्रिय ३ वैक्रियमिश्रा ४ हारका५ हारकमिश्र ६ तैजसकार्मणरूप ७ सप्तधा काययोगभेदेन ।१४। उपयोगो द्विधा, तत्र ज्ञानाज्ञानभेदाष्टकरूपः साकारोपयोगः, चतुर्भेददर्शनरूपोऽनाकारोपयोगः,संयोगे द्वादश ।१६। एकसमये उत्पद्यमानानां च्यवमानानां सङ्ख्येति द्वारद्वयं ।१६।।१७। स्थितिरायुषो जघन्योत्कृष्टमानं ।१८। आहारादिग्रहणशक्तयः पर्याप्नयस्ताश्चषटू आहार १ शरीरे २ न्द्रिय ३ श्वासोच्छ्वास ४ भाषा ५ मनः ६ स्वरूपाः ।१९। के जीवाः कतिभ्यो दिग्भ्य आगतमाहारद्रव्यमाहारयन्तीति किमाहारद्वारं ।२०। विशिष्टाः संज्ञास्तिस्रः । यया त्रिकालमर्थ जानाति सा दीर्घकालिकी संज्ञा मनस्कानामेव १, यश्च देहपालनातोरिष्टवस्तुषु प्रवर्तते अहिताच्च निवर्तते वर्तः मानकालविषयं च चिन्तनं यस्य तस्य हेतुवादोपदेशसंज्ञा द्वीन्द्रियादीनामेव २, यश्च सम्यग्दृष्टिः क्षायोपशमिकज्ञानयुक्तो यथाशक्ति रागादिनिग्रहपरस्तस्य दृष्टिवादोपदेशिकी संज्ञा ३ ॥२१॥ गतिभंवान्तरगमनं ।२२। आगतिः परभवात. १२३॥ वेदश्च स्त्रीनपुंसकभेदात् ।२४। ॥३-४॥ अथैतानि द्वाराणि २४ दंडकेऽवतारयति
(टीका)--सखित्त० दिछी० गाथाद्वयस्य व्याख्यानं सुकरमपि तु पुनः किमपि क्रियते-मयेति कर्तृपदं बहिर्गम्य । संक्षिप्ततरा तु संग्रहणी इयं शरीरादिचतुर्विशतिद्वारात्मिका । तत्र शरीराणि पश्च औदारिकादीनि । शीर्यते इति शरीरः विनाशकारित्वात् ( विनाशित्वात् ) । पुंक्लोबलिङ्गः । अवगाहन्ते अवतिष्ठन्ते जीवा अस्यामिति अवगाहना । संहन्यन्ते दृढी क्रि