Book Title: Daivagna Kamdhenu
Author(s): C A Seelakkhanda
Publisher: Chaukhamba Sanskrit Series Office

Previous | Next

Page 266
________________ ( २४६ ) शत्रोरष्टमगे चन्द्र विषनाड़ीमुपागते । मन्दे शत्रौ च षष्टस्थे विजयं लभते युधि ॥ ७२ ।। अतिनीचगते मन्दे षष्ठस्थे लेयलग्नतः । चन्द्रे वर्गोत्तमांशस्थे दृष्टः शत्रुवशी भवेत् ॥ ७३ ॥ इन्दावत्युच्चगे सौम्ये स्वक्षेत्रांशगतेऽपि वा । जैवे दृकाणे संदृष्टो द्विजोऽवश्यं वशी भवेत् ।। ७४॥ शुक्रे निजत्रिकोणस्थे तुलांशकगते बुधे । मन्दे परमनीचस्थे दृष्टो वैश्यो वशी भवेत् ॥ ७५ १ शनौ परमनीचस्थे बुधस्य विशदंशके । होराया तरणेदृष्टः शूद्रोऽवश्यवंशी भवेत् ॥ ७६ ॥ मषायने वृषनृयुग्मकुलीरासिंह कन्यातुलाजजलवृश्चिकवीथिकायाम्। कुम्भालिचापमकरा मिथुनायने स्युरारूढवर्त्मभरतःसमभातपत्रम्॥ आरुह्योदयराशिं यश्छत्रस्थं वीक्षते नरः । स तस्य वसतां याति दारैरपि धनैरपि ॥ ७८ ॥ विपरीतविधानेन वैपरसिं विनिर्दिशेत् । दृष्टे तु जीवशुक्राभ्यां न दोषस्तत्र जायते ॥ ७९ ॥ स्वयन्तूदयमारुढो वैश्यामस्तमये स्थिताम् । वीक्षते गुरुणा दृष्टो वशगा तस्य सा भवेत् ॥ ८ ॥ गुरौ लाभगते मन्दे षष्ठस्थे भार्गवांशके । उत्तमर्णमवाप्नोति याचमानोऽपि दुःस्थितम् ॥ ८१ ॥ दातुर्व्ययगते जीवे लग्नारुढे च भार्गवे । स्पृहयन्निन्दुहोरायामधमर्णमवाप्नुयात् ।। ८२ ॥ वह्नयात्मा वदने न्यस्तो द्राङ्कारो रसनान्दहन् । मन्त्रसिद्धि हरेत् पुंसो वादे च प्रतिभा तथा ॥ ८३ ॥ १ स्पृहायन्तीन्दुहोरायाम । Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318