Book Title: Daivagna Kamdhenu
Author(s): C A Seelakkhanda
Publisher: Chaukhamba Sanskrit Series Office
________________
[ ७ ]
अस्य च पुस्तकस्य एतदेशे इदानीं विरलोपलम्भाद्येषां केषाञ्चित्तेन पुस्तकेन अर्थे सति तदर्थं सुखं साधयितुं न शक्यते । अपि च कथङ्कारमपि महता उत्साहेन पुस्तकं लब्ध्वा विलोकयतस्तस्य चित्तमतो बाध्यते तद्वयाकुलतया दुर्घटतया च । एतस्य पुस्तकस्य बहुकालमनवीतशास्त्राणां केषाञ्चिदैवचिन्तकानामेवान्तरे व्यवहारोपगतत्वात्तेषां यथामति बोधवशात् तशत् पाठादीनां परिवर्तनाछिपिकरप्रमादाच्चातीवव्याकुलतामापेदे । इह खलु पुस्तके कस्मिंश्चिदध्याये पठितानां श्लोकानाम् अपरस्मिन्नध्याये लेखनादाकुलतायां बहूनि वक्तव्यानि सन्ति । अपरेऽधिका दोषाश्च प्रायो दृश्यन्ते । अपरे श्लोका वा पाठा वेति निश्चयेन ज्ञातुमपि दुष्कराः । तेषां तेषां यथारुचि लिखिता अपि पाठाअभिनवा दृश्यन्ते । ततश्चेह ग्रन्थे कालान्तरसम्भूतान् बहून् लिपिकरदोषान् शोधयित्वा लोकार्थ कारयितुकामैः प्रामाणिकैः कतिपयैर्विज्ञस्तदर्थमविज्ञापितः ॥
अहन्त्वनेन पुस्तकेन सर्वेषां ज्योतिश्शास्त्रमभ्यसितुमीहमानानामतीवप्रयोजनताञ्च संलक्ष्य तत् तदर्थसिद्ध्यै अनैषम् । अथापि यस्य कस्यचित् सकाशे एतस्य पुस्तकस्य विद्यमानभावः श्रूयते अनुमीयते बा तदपि ततश्चाहर्तुं न शक्यते । किन्तु मया तत्तद्दिशाभागात् अस्या दैवज्ञकामधेनो श्चत्वारि आदर्शपुस्तकानि अधिगतानि । तानि सर्व्वाणि मदीयेन पुस्तकेन सह संवाद्य सम्यग्विचारितानि । तेषु प्रायशो विसदृशानि पाठान्तराणि दृष्टानि । तेषामत्र कानिचित् पाठान्तराणि अधोलिखितानि । तान्यवलोकयद्भिः कैश्चिन्मनस्विभिरेतस्मिन् परिशोधने मम गाढपरिश्रमो ज्ञातुं शक्यते । एतस्य परिशोधने मया भूयान् परिश्रमः स्वीकृतः तथापि सर्व्वथा एतत् पुस्तकं परिशुद्धमिति वक्तुं न शक्यते । ततो यदत्रावशेषं किञ्चिन्मम स्खलनं सुधीभिः समुद्भाव्यते तत्तैर्निजगुणेन परिशोधनीयम् ॥
अपिचैतस्मिन् पुस्तके सिंहलाक्षरैर्मुद्रिते केषाञ्चित् स्वदेशीयानामेव तस्य प्रयोजनं भविष्यति । यथा तत् स्वदेशीयानां परदेशीयानां सर्व्वेषामपि
Aho! Shrutgyanam
Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318