Book Title: Daivagna Kamdhenu
Author(s): C A Seelakkhanda
Publisher: Chaukhamba Sanskrit Series Office
________________
[C]
स श्व महास्थविरवरः सकलेषु वेदवेदाङ्गादिषु च न्यायालङ्कृतिस्मृतिप्रभृतिशास्त्रेषु च चतुःषष्ठिकलासु च पारदर्शी जिनवरप्रणीतेषु परमोत्कृष्टेषु सुत्राभिधर्म्मविनयसङ्ख्यातेषु त्रिषु पिटकेषु च विशेषदर्शी विबुधाप्रणीः सज्जनपरिजन निसेवितचरणयुगलो वशीकृतेन्द्रियः शान्तो दान्तो गुणवान् शीलांश्वाऽभूत् । स चाऽयं महास्थविरवरो राज्ञा पण्डितपराक्र बाहुना सकलेऽपिलङ्कादीपे सङ्घराजधुरि नियुक्तः सन् सुतरां सगौरव सबहुमानपुरःसरं चतुर्भिः प्रत्ययैः सर्वदा सङ्ग्रहीतः संमानितश्च । स हि सङ्घराजबरो लोकोपकृतिं कर्तुकामः सन् गर्गपराशरवशिष्ठभोजमणित्थबादरायणप्रह्लादनवृहस्पतिव्यास सुबोधसारस्वतविष्णुगुप्तचराहमिहिरादीनां पूर्वीयाणां निर्मलबुद्धीनां महाशयानां मतांश्च पौलिशरोमकवाशिष्ठसौरपैतामहादीनां परमाद्भुतानां सिद्धान्तानां क्रमांश्चानुगम्य मधुरकोमलपदावलीमिमां दैवज्ञकामधेनुं नात्यल्पां नातिविस्तरामुद्ग्रहणधारणसुकरां कृत्वा एतत्कालीयानां गणकानां दैवचिन्तकनाञ्च हितार्थसाधनाय निरमीसात् ॥
अनेन श्रीमता अनवमदर्शिना सङ्घराजवरेणा ऽपि अस्याः प्रारम्भे, - " प्राच्यैर्वराहमिहिरादिभिरभ्ययायी " ति वचनात् ज्योतिःशास्त्रे विख्यातकीर्तिमतेर्वराहमिहिराचार्य्यस्य मतान्येव अस्यां दैवज्ञकामधेन्वां प्रायः स्वीकृतानीत्यवगम्यते । तथा होराफलप्रदर्शने ऽपि व्यासभोजमतानि चा तस्मादेषा ज्योतिर्विद्भिः सम्भावनीया । एतत्कालीयानां नानातन्त्रावलोकने विरलोत्साहानां मन्दबुद्धीनां देवचिन्तकानां स्वल्पेन कालेन अनायासेन ज्जोतिशास्त्रमहार्णवं तीर्त्वा यथेप्सितार्थसि एषा दैवज्ञका - मधेनुः क्षुद्रनौकावद्भवति । अत एषा जयश्रीयशः कामैर्दैवचिन्तकैः सादरं सततं भावनीया । एषा दैवज्ञकामधेनुत्रिंशदध्यायैरन्विता । तेष्वेवाध्यायेषु यानि यानि निर्दिष्टानि तानि सर्व्वाणि चिह्नद्वारेण संज्ञापूर्वकं कृत्वा अत्रैवानुक्रमणिकायां पृथक् पृथक् सन्दर्शितानि । तानि तत्रा गतानुसारेणैव अवगन्तव्यानि ॥
Aho! Shrutgyanam
Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318