________________
(
२४६ )
शत्रोरष्टमगे चन्द्र विषनाड़ीमुपागते । मन्दे शत्रौ च षष्टस्थे विजयं लभते युधि ॥ ७२ ।। अतिनीचगते मन्दे षष्ठस्थे लेयलग्नतः । चन्द्रे वर्गोत्तमांशस्थे दृष्टः शत्रुवशी भवेत् ॥ ७३ ॥ इन्दावत्युच्चगे सौम्ये स्वक्षेत्रांशगतेऽपि वा । जैवे दृकाणे संदृष्टो द्विजोऽवश्यं वशी भवेत् ।। ७४॥ शुक्रे निजत्रिकोणस्थे तुलांशकगते बुधे । मन्दे परमनीचस्थे दृष्टो वैश्यो वशी भवेत् ॥ ७५ १ शनौ परमनीचस्थे बुधस्य विशदंशके ।
होराया तरणेदृष्टः शूद्रोऽवश्यवंशी भवेत् ॥ ७६ ॥ मषायने वृषनृयुग्मकुलीरासिंह कन्यातुलाजजलवृश्चिकवीथिकायाम्। कुम्भालिचापमकरा मिथुनायने स्युरारूढवर्त्मभरतःसमभातपत्रम्॥
आरुह्योदयराशिं यश्छत्रस्थं वीक्षते नरः । स तस्य वसतां याति दारैरपि धनैरपि ॥ ७८ ॥ विपरीतविधानेन वैपरसिं विनिर्दिशेत् । दृष्टे तु जीवशुक्राभ्यां न दोषस्तत्र जायते ॥ ७९ ॥ स्वयन्तूदयमारुढो वैश्यामस्तमये स्थिताम् । वीक्षते गुरुणा दृष्टो वशगा तस्य सा भवेत् ॥ ८ ॥ गुरौ लाभगते मन्दे षष्ठस्थे भार्गवांशके । उत्तमर्णमवाप्नोति याचमानोऽपि दुःस्थितम् ॥ ८१ ॥ दातुर्व्ययगते जीवे लग्नारुढे च भार्गवे । स्पृहयन्निन्दुहोरायामधमर्णमवाप्नुयात् ।। ८२ ॥ वह्नयात्मा वदने न्यस्तो द्राङ्कारो रसनान्दहन् । मन्त्रसिद्धि हरेत् पुंसो वादे च प्रतिभा तथा ॥ ८३ ॥ १ स्पृहायन्तीन्दुहोरायाम ।
Aho ! Shrutgyanam